गोहत्या, स्त्री, (गवां हत्या हननम् ।) गोवधः । तत्प्रायश्चित्तादि प्रायश्चित्तशब्दे द्रष्टव्यम् ॥ * ॥ पारिभाषिकगोहत्या यथा, -- सावित्र्युवाच । “विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् । का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ॥ एतेषां लक्षणं सर्व्वं वद वेदविदां वर ! ॥ यम उवाच । गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्म्मध्ये गोहत्याञ्च लभेत्तु सः ॥ दण्डैर्गान्ताडयन् मूढो यो विप्रो वृषवाहकः । दिने दिने गवां हत्यां लभते नात्र संशयः ॥ ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजयेद्वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥ वृषलीपतिं याजयेद् यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् । गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥ यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च । सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद् ध्रुवम् ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ॥ पितॄं श्च पर्व्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिं यो हि स गोहत्यां लभेद् ध्रुवम् ॥ स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥ गोमार्गं खननं कृत्वा ददाति शस्यमेव च । तडागे च तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥ प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् । अर्थलोभादथाज्ञानात् स गोहत्यां लभेद् ध्रुवम् ॥ राजके दैवके यत्नात् गोस्वामी गां न पालयेत् । दुःखं ददाति यो मूढो गोहत्यां लभते ध्रुवम् ॥ प्राणिनं लङ्वयेद्यो हि देवार्च्चामनलं जलम् । नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद् ध्रुवम् ॥ शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥ देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं प्रति । न सम्भ्रमान्नमेत् यो हि स गोहत्यां लभेद् ध्रुवम् ॥ न ददात्याशिषं कोपात् प्रणताय च यो द्बिजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेद् ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-368-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।