गौणी, स्त्री, (गुणं सादृश्यमधिकृत्य प्रवृत्ता । गुण + अण + स्त्रियां ङीप् ।) अशीतिप्रकार- लक्षणान्तगेतलक्षणाविशेषः । यथा, -- “सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि । सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ॥” (“ताः पूर्व्वोक्ता अष्टादशभेदा लक्षणाः । सादृ- श्येतरसम्बन्धाः कार्य्यकारणभावादयः । अत्र शुद्धानां ‘श्वेतो धावति’ इत्यादीन्युदाहरणानि ज्ञेयानि । रूढावुपादानलक्षणा सारोपा गौणी यथा ‘एतानि तैलानि हेमन्ते सुखानि’ अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिस्नेहेषु वर्त्तते । प्रयोजने यथा, राज- कुमारेषु तत्सदृशेषु गच्छत्सु ‘एते राजकुमारा गच्छन्ति ।’ रूढावुपादानलक्षणा साध्यवसाना गौणी यथा, ‘तैलानि हेमन्ते सुखानि ।’ प्रयो- जने यथा, ‘राजकुमारा गच्छन्ति ।’ रूढौ लक्षणलक्षणा सारोपा गौणी यथा, ‘राजा गौडेन्द्रः कण्टकं शोधयति ।’ प्रयोजने यथा, ‘गौर्वाहीकः ।’ रूढौ लक्षणा साध्यवसाना गौणी यथा, ‘राजा कण्टकं शोधयति ।’ प्रयो- जने यथा, ‘गौर्जल्पति ।’ अत्र केचिदाहुः गोसहचारिणो गुणा जाड्य- मान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाही- कार्थाभिधाने निमित्तीभवन्ति । यदुक्तं, गो- शब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुम- सामर्थ्यात् गोशब्दार्थमात्रबोधनाच्च । अभि- धाया विरतत्वात् विरतायाश्च पुनरुत्थाना- भावात् । अन्ये पुनर्गोशब्देन वाहीकार्थो नाभिधीयते किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाह्यत्र मोशब्दाद्वाहीकार्थः प्रती- यते न बा । आद्येऽपि गोशब्दादेव बा लक्षि- ताद्वा गुणात् । अविनाभावद्वारा तत्र न प्रथमः । वाहीकार्थेऽस्यासङ्केतितत्वात् । न द्वितीयः । अविनाभावलभ्यस्यार्थस्य शाब्दे- ऽन्वये प्रवेशासम्भवात् । शाब्दी ह्याकाङ्क्षा शब्दे- नैव प्रपूर्य्यते । न द्वितीयः । यदि हि गोशब्दा- द्वाहीकार्थो न प्रतीयते तदास्य वाहीकस्य सामानाधिकरण्यमसमञ्जसं स्यात् । तस्मादत्र गोशब्दा मुख्यया वृत्त्या वाहीकशब्देन सहान्वय- मलभमानीऽज्ञत्वादिसाधर्म्म्यसम्बन्धाद्बाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयो- जनम् । इयञ्च गुणयोगात् गौणी इत्युच्यते । पूर्व्वा तु उपचारामिश्रणात् शुद्धा । उपचारो हि नामात्यन्तं विसकलितयोः सादृश्यातिशय- महिम्ना भेदप्रतीतिस्थगणमात्रम् । यथा अग्निमानवकयोः शुक्लपटयोस्तु नात्यन्तं भेद- प्रतीतिः । तस्मादेवमादिषु शुद्धैव लक्षणा ॥” [] इति साहित्यदर्पणे । २ । १३ ॥) अन्यत् सर्व्वं लक्षणाशब्दे द्रष्टव्यम् ॥
📄 मूल मुद्रित पृष्ठ (2-371-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।