गौरमुख पु० गौरं विशुद्धं मुखमस्य । शमीकर्षेः शिष्ये [] १ मुनिभेदे तेन हि शिष्येण स्वपुत्रशृङ्गिशापवृत्तान्तं शमीकर्षिः परिक्षिते न्यवेदयत् तत्कथा भा० आ० ४२ अ० । “एवमादिश्य शिष्यं स प्रेषयामासु सुव्रतः । परिक्षिते नृपतये दयापन्नो महातपाः । संदिश्य कुशलप्रश्नं कार्य्यवृत्तान्तमेव च । शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् । सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्द्धनम् । विवेश भवनं राज्ञः पूर्व्वं द्वाःस्थैर्निवेदितः । पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा । आचख्यौ च परिश्रान्तो राज्ञे सर्व्वमशेषतः । शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ । गौरमुख उवाच । शमीकोनाम राजेन्द्र! विषये वर्त्तते तव । ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः” “तस्य त्वया नरव्याघ्र! सर्पः प्राणैर्वियोजितः । अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च । क्षान्तवां स्तव तत्कर्म पुत्रस्तस्य न चक्षमे । तेन शप्तोऽसि राजेन्द्र! पितुरज्ञातमद्य वै । तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति । तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् । तदन्यथा न शक्यञ्च कर्त्तुं केनचिदप्युत । न हि शक्नोमि तं यन्तुं पुत्रं कोपसमन्वितम् । ततोऽहं प्रेषितस्तेन तव राजन्! हितार्थिना” । गौरं शुक्लं मुखमस्य । श्वेत- मुखाढ्ये त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष् ।
📄 मूल मुद्रित पृष्ठ (2737-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।