ङ, ङकारः । स तु व्यञ्जनपञ्चमवर्णः । अस्योच्चारण- स्थानं सनासिककण्ठः । इति व्याकरणम् ॥ (“जिह्वामूले तु कुः प्रोक्तः ।” इति । “अनुस्वारयमानाञ्च नासिकास्थानमुच्यते ॥” इति च शिक्षोक्तेस्तथात्वम् ॥) अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ङकारं परमेशानि ! स्वयं परमकुण्डली । सर्व्वदेवमयं वर्णं त्रिगुणं लोललोचने ! ॥ पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् ॥” अपि च । “ऊर्द्ध्वाधःक्रमतो रेखा किञ्चिदाकुञ्चिता ततः । अधोगता कुण्डली तु मात्रा शक्तिस्वरूपिणी ॥ रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति देवताः ॥ ध्यानं यथा, वर्णोद्धारतन्त्रे । “धूम्रवर्णां महाघोरां ललज्जिह्वां चतुर्भुजाम् । पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” [] तस्य नामानि यथा, -- “ङः शङ्खी भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः । एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥ कान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः । शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥” इति नानातन्त्राणि ॥ (मातृकान्यासे अस्य दक्षिणकराङ्गुलाग्रेषु न्यस्यता ॥)
ङः, पुं, (ङयते गृह्य इन्द्रियैरिति । ङु + बाहुलकात् डः ।) विषयः । विषयस्पृहा । इति मेदिनी । ङे । १ ॥ भैरवः । इत्येकाक्षरकोषः ॥ (यथा, स्तुतिपञ्चाशत् । “ङवन्दिते ! ङलिप्सिते ! ङकारवर्णरूपिणि ! ॥”)
📄 मूल मुद्रित पृष्ठ (2-408-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।