चन्द्रकूटः, पुं, (चन्द्राख्यः कूटः पर्व्वतः । यद्बा, चन्द्रः कूटे शृङ्गे यस्य । प्रतिदने चन्द्रप्रदक्षिणकरणा- देवास्य तथात्वम् ।) कामरूपस्थपर्व्वतभेदः । यथा, -- “पूर्व्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः । त्रिकोणस्ताम्रसङ्काशस्तदूर्द्ध्वे चन्द्रमण्डलम् ॥ द्वितीयवर्गस्याद्यन्तु बिन्द्विन्दुभ्यामलङ्कृतम् । चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् ॥ अद्यापि प्रतिदर्शे तु पर्व्वतं तं निशापतिः । प्रदक्षिणीकरोत्येव दशभी रश्मिभिर्युतः ॥ तस्यैव पूर्व्वभागे तु सोमकुण्डाह्वयं सरः । तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते ॥ स्वर्गादषभृतश्चन्द्रः कामाख्यासेवने यदा । तदा तद्रश्मिसंघातनिःसृतास्तोयराशयः ॥ तैस्तोयैर्व्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः । मध्ये पुण्यतमस्थाने स्वयं ब्रह्मशिलोपरि ॥ चन्द्ररश्मिसमुद्भूत ! चन्द्रकुण्ड ! महोदधे ! । सुधास्रवण ! साह्लाद ! त्वं चन्द्र ! कलुषं हर ॥ इत्यनेन तु मन्त्रेण सुस्नाय चन्द्रपाथसि । चन्द्रकूटं समारुह्य पूजयेद्यस्तु तं नरः ॥ अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते । परत्र चन्द्रभवनं भित्त्वा याति परं पदम् ॥ तोरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः । तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः ॥ [] न्यञ्चभावं समासाद्य सर्व्वदेवेश्वरो हरिः । सेवितुं त्रिदशेशानीं सततं वर्त्तते नरः ॥ चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः ॥ प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा ॥ चन्द्रकुण्डजले स्नात्वा समारुह्याथ नन्दनम् । आराध्य शक्रं लोकेशं महाफलमवाप्नुयात् ॥” इति कालिकापुराणे कामाख्यारूपनिर्णये ८१ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-428-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।