चन्द्रोदयः, पुं, (चन्द्रस्य उदयः ।) आकाशे चन्द्रस्य प्रकाशः । स च यद्दिने सार्द्धप्रहरद्वय- व्यापिनी या तिथिस्तत्तिथ्यनुसारेण भवति । तस्य प्रमाणं यथा, पुराणसमुच्चये । “गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा ॥ तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् । प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्बितीयायां चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याघानविषये वृद्धशातातपेन । द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी । अग्न्याधानं चतुर्द्दश्यां परतः सोमदर्शनादिति ॥ अपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भागः । ततश्च यत्र प्रतिपदि षण्मुहूर्त्तव्यापिनी द्बितीया तत्र चन्द्रदर्शनसम्भावनमिति ।” इति श्रीहरि- भक्तिविलासे १६ विलासः ॥ (चन्द्रस्य वस्त्र- खण्डादिरचितचन्द्राकृतेरातपो यत्र ।) चन्द्रा- तपः । औषधविशेषः । इति हेमचन्द्रः । ३ । ३४५ ॥ स तु मकरध्वजाख्यरससिन्दूरम् । यथा, -- “पलं मृदु स्वर्णदलं रसेन्द्रं पलाष्टकं षोडश गन्धकस्य । [] शोणैः सुकार्पासभवैः प्रसूनैः सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥ तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सितकाख्ययन्त्रे ततो रजः पल्लवरागरम्यम् ॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं सोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ * ॥ चन्द्रोदयोऽयं कथितस्तु माषो भुक्तोऽहिवल्लीदलमध्यवर्त्ती । मदोन्मदानां प्रमदाशतानां गर्व्वाधिकत्वं श्लथयत्यकाण्डे ॥ घृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समस्तकानि । माषान्नपिष्टानि भवन्ति पथ्या- न्यानन्ददायीन्यपराणि चात्र ॥ * ॥ वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः समस्तगदखण्डनः प्रचुररोगपञ्चाननः । गृहेषु रसराडयं भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां भवेद्दुर्ल्लभः ॥” इति सारकौमुदी सुखबोधश्च ॥
📄 मूल मुद्रित पृष्ठ (2-432-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।