चक्रतीर्थ न० चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम् । प्रभास क्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्क० प्रभा० “तस्य सीमां प्रवक्ष्यामि विष्णुक्षत्रस्य भामिनि! । पूर्वे- यमेश्वरं यावत् श्रीसोमेशस्तु पश्चिमे । उत्तरे तु विशा- लाक्षी दक्षिणे सरितां पतिः” इत्युपक्रमे “चक्रतीर्थे नरः स्नात्वा सापवासोजितेन्द्रियः । द्वादश्यां कार्त्तिके मासि- दद्यात विप्रषु काञ्चनम् । विष्णुं संपूज्य विधिना मुच्यते सवपातकैः देव्युवाच चक्रतीर्थं कथं नाम त्वया प्रोक्तं वृषध्वज! । कुत्र तिष्ठति तत्तीर्थं किंप्रभावं बदस्व मे । ईश्वर उवाच । पुरा देवासुरे यद्ध डत्वा दैत्यान् जनार्द्दनः । चक्रं प्रक्षालयामास तत्र वै रक्तराञ्जतम् । [] अष्ट कोटीस्तु तीर्थानि तत्रानीय स्वयं हरिः । तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने । तीर्थस्य चक्रे नामापि चक्रतीर्थमिति श्रुतम् । अष्टायुतानि तीर्था- नामष्टौ कोट्यस्तथैव च । तत्र सन्ति महादेवि । चक्रतीर्थे न संशयः । यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः । सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम् । तीर्था- नामष्टकोट्यस्तु निवसन्ति वरानने! । एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा । तत्र स्नात्वा महादेवि! यज्ञ- कोटिफलं लभेत् । तस्य कल्पेषु नामानि शृणुते कथयाम्यहम् । कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्विती- यके । तृतीये शतधारं च चक्रतीर्थं चतुर्थके । एवं ते कल्पनामानि अतीतान्यखिलानि ते । कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात् । तत्र यद्दीयते दानं तस्य संख्या न विद्यते । अर्द्धक्रोशप्रमाणञ्च विष्णुक्षेत्रं प्रकी- र्त्तितम् । व्रह्महत्यापसर्पाय सत्यमेतन्मयोदितम् । मासोपवासी तत्क्षेत्रमग्निहोत्री पतिव्रता । स्वाध्यायी यज्ञयाजी च तपश्चान्द्रायणादिकम् । तिलोदकं च पितॄणां श्राद्धञ्च विधिपूर्व्वकम् । एकरात्रं त्रिरात्रं बा कृच्छ्रसान्तपनं तथा । मासोपवासी तत्रैव अन्यद्वा पु- ण्यकर्म्मकृत् । दैत्यारिक्षेत्रमासाद्य यत्किञ्चित् कुरुते नरः । अन्यक्षेत्रात् कोटिगुणं पुण्यं भूयान्न संशयः । सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् । सम्यक्यात्रा- फलप्रेप्सुः सर्वपापविशुद्धये । चाण्डालः श्वपचोवापि तिर्यग्योनिगतस्तथा । तस्मिन् तीर्थे मृतः सम्यक् आ- च्युतं लोकमाप्नुयात् । इति संक्षेपतः प्रोक्तं चक्रतीर्थ- समुद्भवम् । माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्” ।
📄 मूल मुद्रित पृष्ठ (2837-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।