चातुर्थकः, पुं, (चतुर्थे चतुर्थेऽह्नि भव इति । चतुर्थ + वुञ् ।) प्रतिचतुर्थदिनभवज्वरः । तस्य मन्त्रौषधं यथा, ओँ जम्भनि स्तम्भनि विमो- हय सर्व्वव्याधीन्मे वज्रेण फट् । इति । पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वाथ न स्पृशेत् । चातुर्थको ज्वरो रुद्र ! अन्ये चैव ज्वरास्तथा ॥ जम्बुफलं हरिद्रा च सर्पस्यैव च कञ्चुकम् । सर्व्वज्वराणां धूपोऽयं हर ! चातुर्थकस्य च ॥” इति गारुडे १८७ अध्यायः ॥ (अस्य सलक्षणचिकित्सादीनि यथा, -- “चातुर्थो द्विविधो ज्ञेयो वातश्लेष्मात्मको ज्वरः । चातुर्थको नाम गदो दारुणो विषमज्वरः ॥ शोषणः सर्व्वधातूनां बलवर्णाग्निनाशनः । त्रिदोषजो विकारः स्यादस्थिमज्जगतोऽनिलः ॥ कुपितं पित्तमेवन्तु कफश्चैवं स्वकालतः । शीतदाहकरस्तीव्रस्त्रिकालञ्चानुवर्त्तते ॥ स सन्निपातसम्भूतो विषमो विषमज्वरः । ऊर्द्ध्वं कायस्य गृह्णाति यः पूर्व्वं सोऽनिलात्मकः । पूर्व्वं गृह्णात्यधः कायं श्लेष्मपूर्व्वज्वरश्च सः । जङ्घाभ्यां श्लैस्मिको ज्ञेयः शिरसोऽनिलसम्भवः । एवं विज्ञाय सद्वैद्यः कुर्य्यात्तत्र प्रतिक्रियाम् । वेलाज्वरो रसगतो रक्तश्चैकाहिकस्तथा ॥ [] मांसगोऽपि तृतीयः स्याच्चतुर्थोऽस्थिसमाश्रितः । सर्व्वधातुगतो ज्ञेयो जीर्णो धातुक्षयङ्करः ॥ भूतजे भूतविद्या स्याद्दधाति समताडनम् । वासाधात्रीदारुपथ्या नागरत्रिफला भवः ॥ मधुना संयुतः क्वाथश्चातुर्थकनिवारणः ॥ अगस्तिपत्रस्वरसो निहन्ति नस्ये च चातुर्थकरोगमुग्रम् । कासं भ्रमञ्चापि शिरोरुजाञ्च विनाशयत्याशु हि तन्नराणाम् ॥” इति हारीते चिकित्सास्थाने द्वितीयेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-441-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।