🕉️ 21 November 2026, Saturday · 05:54:01 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

चामुंडा
cāmuṃḍā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
चामुंडा संज्ञा स्त्री॰ [सं॰ चामुण्डा] एक देवी का नाम जिन्होंने शुंभ, निशुंभ के चंड, मुंड नामक दो सेनापति दैत्यों का बध किचा था । पर्या॰—चर्विका । चर्ममुंडा । माजीरकर्णिका । कर्णमोटी । महागंधा । भैरवी । कापालिनी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
चामुण्डा f. a form of Durgā (cf. चर्म-मुण्डा), Mālatīm.; Kathās.; Rājat.; MārkP. lxxxvii, 25 (fr. चण्ड and मुण्ड)
one of the 7 mothers, L., Sch.
one of the 8 Nāyikās of Durgā, BrahmaP. ii, 61, 80
चामुण्डा f. of ˚ड, q.v.
📄 मूल मुद्रित पृष्ठ (393,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
चामुंडा A terrific form of Durgā; Māl. 5. 25; (the word is thus derived; यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता । चामुंडोति ततो लोके ख्याता देवी भविष्यसि ॥).
📄 मूल मुद्रित पृष्ठ (0490-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
चामुण्डा स्त्री “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता । [] चामुण्डेति ततोलोके ख्याता देवी भविष्यसि” देवोमा० निरुक्तनामके देवीभेदे । २ परव्रह्मणः समष्टिरूपशक्ति- भेदे ३ ब्रह्मविद्यायाञ्च गुप्तवती । तत्र (ऐँ ह्रीँ क्लीँ चानुण्डायै विच्चे) इति चण्डिकानर्वार्ण्णार्थनिर्ण्णये उक्तं यथा । “निर्धूतनिखिलध्वान्ते! नित्यमुक्ते । परात्परे! । अखण्ड ब्रह्मविद्यायै चित्सदानन्दरूपिणि! । अनुसन्दध्महे नित्यं वयं त्वां हृदयाम्बुजे । इत्थं विज्ञापयत्येषा या कल्याणी नवाक्षरी । अस्या महिमलेशोऽपि गदितुं केन शक्यते । बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात् । एनमर्थं गुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम् । आशिषञ्च परां लब्ध्वा मन्त्रसिद्धिमवाप्नुयादित्यादि” । अत्र प्रथमश्लोके संबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः । पदानां तत्तद्वि भक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्द्धेनाकाङ्क्षित पदानामध्याहार उक्तः । इतरत्स्पष्टम् । सच्चिदानन्दा त्मकपरब्रह्मधर्म्मत्वाद्देवशक्तेरपि त्रिरूपत्वम् । तत्र चिद्रूपा महासरस्वती वाग्वीजे न (ऐँ) सम्बोध्यते । ज्ञाने- नैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम् युक्तमेव । नित्यत्वं त्रिकालाबाध्यत्वम् । अतएव मुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम् । एतेव सद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्रीँ) सम्बोधनमिति व्याख्यातम् । पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव तस्यैव पुरुषार्थत्वात् । “आत्मनः कामाय सर्वं प्रिये भवतीति” श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्व शेषितया परत्वात् । स च मानुषानन्दमारभ्योत्तरोत्तरं शतगुणाधिक्येन श्रुतौ बहुशोवर्णितः “तेषु परमाति शायी स एको ब्रह्मण आनन्द” इति परमावधित्वेनाम्ना तएव परात्परः “स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः” इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्य कामवीजेन (क्लीँ) सम्बोधनमुक्तम् । चामुण्डाशब्दो हि मोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्ये चतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लडयो रैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्यु- त्पत्तेः । पृषोदरादित्वात्सर्वंसाधु” इत्याहुः । “मया तवात्रोपहृतौ चण्डमुण्डौ महासुरौ” इति पद्ये द्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम् “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता । [] वामुण्डेति ततो लोके ख्याता देवी भविष्यतीति” पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति रह- स्यम् । विच्चे इति । वित् च, इ, इति पदत्रयात्मकं वीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तं अस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमय- ब्रह्ममहिषि इत्यर्थः । चित्पदं ज्ञानपरम्प्रसिद्धमेव चकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुस- न्दध्महैत्यादिः शेषः । इत्थञ्च महासरखत्यादिरूपेण चिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयं सर्व्वदा ध्यायेम इतिमन्त्रार्थः फलितः । तस्याय सङ्ग्रहः “महासरस्वति चिते! महालक्ष्मि! सदात्मिके! । महाकाल्यानन्दरूपे! तत्त्वज्ञानप्रसिद्धये । अनुसन्दध्महे चण्डि । वयन्त्वां हृदयाम्बुजे” इति । यद्यपि श्री- त्येव वीजम्महालक्ष्म्याःप्रसिद्धम् । न हृल्लेखा (ह्रीँ) । तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्ना- तीव भेदः । अतएव “श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति” श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः । एवं काम- वीज एव लकारस्य स्थाने रेफयोजनेन कालीबी- जता रलयोश्चान्त्यस्थत्वेनैक्यान्ना
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
चामुण्डा, स्त्री, (महासंग्रामे चण्डमुण्डाख्यौ द्बौ शुम्भनिशुम्भसेनाध्यक्षौ अनया शक्त्या निहतौ अतः परितुष्टया भगवत्या कौशिक्या अस्या- श्चामुण्डेति संज्ञा रक्षिता । एतत् सर्व्वन्तु वक्ष्य- माणासु प्रवृत्तिषु दर्शनीयम् ।) दुर्गा । इति जटाधरः ॥ मातृकाभेदः । इति शब्दरत्ना- वली ॥ तत्पर्य्यायः । चर्व्विका २ चर्म्ममुण्डा ३ मार्ज्जारकर्णिका ४ कर्णमोटी ५ महागन्धा ६ भैरवी ७ कापालिनी ८ । इति हेमचन्द्रः ॥ अस्या ध्यानं यथा, -- “काली करालवदना विनिष्क्रान्तासिपाशिनी । विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥ द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा । अतिविस्तारवदना जिह्वाललनभीषणा ॥ निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥” [] अस्याश्चामुण्डेति नामकारणं यथा, -- “यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि । भविष्यसि ॥” इति चण्डी ॥ अस्यास्तन्त्रादिकं यथा, -- “देव्या ललाटनिष्क्रान्ताया कालीति च विश्रुता । तस्यास्तन्त्रं प्रवक्ष्यामि कामदं शृणु भैरव ! ॥ समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः । षष्ठस्वराग्निबिन्द्विन्दुसहितो मादिरेव च ॥ कालीतन्त्रमिति प्रोक्तं धर्म्मकामार्थदायकम् । एतन्मूर्त्तिं प्रवक्ष्यामि वत्सकाग्रमनाः शृणु ॥ नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता । खट्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥ वामे चर्म्म कपालञ्च ऊर्द्धाधोभावतः पुनः । दधती मुण्डमालाञ्च व्याघ्रचर्म्मधराम्बरा ॥ कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा । लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥ कबन्धवाहना पीनविस्तारश्रवणानना । एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥ एतस्या योगिनी चाष्टौ पूजयेच्चिन्तयेदपि । त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥ कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः । एषातिकामदा देवी जाड्यहानिकरी सदा ॥ एतस्याःसदृशी काचित् कामदा न हि विद्यते ॥” इति कालिकापुराणे ६० अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-443-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "चामुंडा" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें