🕉️ 28 November 2026, Saturday · 05:53:26 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

चित्रलेखा
citralekhā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
चित्रलेखा संज्ञा स्त्री॰ [सं॰]
१. एक वर्णवृत्त जिसके प्रत्येक चरण में १ मगण १ भगण, १ नगण और तीन यगण होते हैं । जैसे,—मै भीनी यों गुणनि सुनु यथा कामरी पाइ बारी । बोलो ना आलि ! कहत तुमसों दिन ह्वै बारि बारी ।
२. बाणासुर की एक कन्या ऊषा की एक सखी जो कूष्मांड की लड़की थी । यह जित्रकला में बड़ी निपुण थी ।
३. एक अप्सरा का नाम ।
४. चित्र बनाने की कलम । तसवीर बनाने की कूची ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
चित्र—लेखा f. a picture, portrait, Gīt. x, 15 two metres of 4 × 17 syllables
another of 4 × 18 syllables
N. of an Apsaras (skilful in painting), MBh.; Hariv.
of a daughter of Kumbhāṇḍa, 9930 BhP. x, 62, 14.
📄 मूल मुद्रित पृष्ठ (397,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
चित्रलेखा स्त्री चित्रं लेखयति लिख--अण् उप० स० । १ वाणा- सुरमन्त्रिणः कुम्भाण्डस्य कन्यायाम् २ अप्सरोभेदे च । तस्याश्च चित्रलेखनदक्षता हरिव० १७६ अ० वर्ण्णिता यथा “ऊषायावचनं श्रुत्वा रामा वाक्यमिदं पुनः । उवाच रुदतीञ्चैव कुम्भाण्डतनया सखी । कुशला ते विशा- लाक्षि! सर्व्वथा सन्धिविग्रहे । अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्वतां सखि! । अस्याः सर्व्वमशेषं वै त्रै लोक्यं विदितं सदा । एवमुक्ता तदैवोषा हर्षेणागत- विस्मया । तामप्रसमानाय्य चित्रलेखां सखीं प्रियाम् । कृताञ्जलिपुटा दीना ऊषा वचनमव्रवीत् । परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भाविनि! । भर्त्तारं यदि [] मेऽद्य त्वं नानयिष्यसि मत्प्रियम् । कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम् । त्यक्ष्याम्यहं प्रियान् प्राणांस्ततः कमललोचने! । चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षवती शनैः । नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भाविनि! सुव्र- ते! । न कुलेन न वर्णेन न शीलेन न रूपतः । न देश- तश्च विज्ञातः सहि चोरो मया सखि! । किन्तु शक्यं यथा कर्त्तुं बुद्धिपूर्व्वं मया सखि! । प्राप्तुञ्च शृणु मे वाक्यं यथाकाममवाप्स्यसि । देवदानवयक्षाणां गन्धर्व्वोरगरक्षसाम् । ये विशिष्टाः प्रभावेण रूपे- णाभिजनेन च । यथाप्रधानतः सर्व्वानालिखिष्या- म्यहं सखि! । मनुष्पलोके ये चापि प्रवरा लोकविश्रु- ताः । सप्तरात्रेण ते भीरु । दर्शयिष्यामि तानहम् । ततो विज्ञाय पट्टस्थं भर्त्तारं प्रतिलप्स्यसे । सा चित्र- लेखया प्रोक्ता ऊषा हितचिकीर्षया । क्रियतामेव- मित्याह चित्रलेखां सखीं प्रियाम् । ततः कुशलहस्तत्वा- द्यथालेख्यं समन्ततः । इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् । चित्रपट्टगतान् मुख्यानानया- मास शोभना । ततः प्रस्तीर्य्य पट्टं सा चित्रलेखा स्वयंकृतम् । ऊषायै दर्शयामास सखीनाञ्च विशेषतः” । “ततस्तुदेव्या रूपेण चित्रलेखा वराप्सराः” तत्राध्यायादौ । भाग० १० । ६२ अ० । कुम्भाण्डकन्यया चित्रलेखयैव तथा चित्रं लिखितमित्युक्तं यथा “वाणस्य मन्त्री कु- म्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता” इत्युपक्रमे । “चित्रलेखोवाच व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये नरं यस्ते मनोहर्त्ता तमादिश । इत्युक्त्वा देवगन्धर्व- सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् शूर- मानकदुन्दुभिम् । व्यलिस्यत् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता । अनिरुद्धं विलिखितं वीक्ष्यैषाऽवा- ङ्मुखीह्रिया । सोऽसावसाविति प्राह स्मयमाना मही- पते! । चित्रलेखा तमाज्ञाय शौर्य्यं कृष्णस्य योगिनी । ययौ विहायसा राजन्! द्वारकां कृष्णपालिताम्” “मन्दाक्रान्ता नपरलघुयुता चित्रलेखा” छन्दोम० उक्ते ३ अष्टादशाक्षरपादके “सद्राश्वैर्मननततमकैः कीर्त्ति- ता चित्रलेखेयम्” वृ० र० टी० उक्ते च ४ छन्दोभेदे । “सस- जा मजगा गु दिक्स्वरैर्भवति चित्रलेखा” वृ० र० टी० उक्ते ५ छन्दोभेदे । ६ व्रजाङ्गनामेदे । “शङ्केऽमुष्मिन् जगति मृगदृशां साररूपं यदासोदाकृष्येदं व्रजयुवतिसमा वेधसा [] सा व्यधायि । नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्यु- तस्य प्रीतं तस्यां नयनयुगमभूत् चित्रलेखाद्भुतायाम्” उज्ज्वलमणिः कर्म्म० । ७ चित्रायां रेखायाम् स्त्री रलयौरेक्यात् ६ त० । ७ चित्रस्य लेखने पु० । “ऊषा- ऽनिरुद्धसमागममिव, चित्रलेखादर्शितविचित्रसकलभुवना- कारम् । (राजकुलम्) काद० ।
📄 मूल मुद्रित पृष्ठ (2947-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
चित्रलेखा, स्त्री, (चित्रो लेखो लेखनशक्तिर्यस्याः । चित्रं लेखयतीति वा । लिख + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् । चित्रलेखनदक्षतयास्या- स्तथात्वम् ।) अप्सरोविशेषः । सा ऊषायाः सखी कुम्भाण्डस्य कन्या । यथा, हरिवंशे । १७४ । ७४ -- ७५ । “उवाच रुदतीञ्चैव कुम्भाण्डतनया सखीम् । कुशला ते विशालाक्षि ! सर्व्वथा सन्धिविग्रहे ॥ अप्सराश्चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ! ॥” यथा, श्रीभागवते । १० । ६२ । १४ । “बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥” (अस्याश्चित्रलेखनपटुत्वकथा यथा हरिवंशे । १७४ । ८० -- ८८ । “चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षयती शनैः ॥” “देवदानवयक्षाणां गन्धर्व्वोरगरक्षसाम् । ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च ॥ यथा प्रधानतः सर्व्वानालिखिष्याम्यहं सखि ! । मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥ सप्तरात्रेण ते भीरु ! दर्शयिष्याम्यहं प्रियम् । ततो विज्ञाय पट्टस्थं भर्त्तारं प्रतिलप्स्यसे ॥ सा चित्रलेखया प्रोक्ता ऊषा हितचिकीर्षया । क्रियतामेवमित्याह चित्रलेखां सखीं प्रति ॥ ततः कुशलहस्तत्वात् यथा लेख्यं समन्ततः । इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥ चित्रपट्टगतान् मुख्यानानयामास शोभना ॥”) छन्दोविशेषः । इति छन्दोमञ्जरी ॥ अस्य विव- रणं छन्दःशब्दे द्रष्टव्यम् ॥
📄 मूल मुद्रित पृष्ठ (2-450-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬