🕉️ 28 November 2026, Saturday · 04:59:26 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

चित्रांगद
citrāṃgada
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
चित्रांगद संज्ञा पुं॰ [सं॰ चित्राङ्गद]
१. सत्यवती के गर्भ से उत्पन्न राजा शांतनु के एक पुत्र जो विचित्रवीर्य के छोटे भाई थे ।
२. देवी भागवत के अनुसार एक गंधर्व का नाम ।
३. महाभारत, अश्वमेध पर्व में वर्णित दशार्ण देश के एक प्राचीन राजा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
चित्राङ्गद mfn. decorated with variegated bracelets, MBh. ii, 348
चित्राङ्गद m. N. of a king of Daśārṇa, MBh. xiv, 2471
of a son (of Śāntanu, i; Hariv. ix, 22, 20; of Indra-sena v.l. See चन्द्राङ्ग्˚)
of a Gandharva (person of the play Dūtāṅgada)
of a Vidyā-dhara, Kathās. xxii, 136
of a divine recorder of men's deeds, Ācāranirṇ.
(= -गुप्त) the secretary of a man of rank, W.
📄 मूल मुद्रित पृष्ठ (397,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
चित्राङ्गद पु० शान्तनोः सत्यवत्यां जाते पुत्रभेदे । “भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति तस्यां पूर्व्वं कानीनो गर्भः पराशराद् द्वैपायनोऽभवत् । तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः । विचित्रवीर्य्यश्चित्राङ्गदश्च तयो रप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्र- वीर्य्यस्तु राजासीत्” भा० आ० ९५ अ० । ब्रह्मपादजचित्रगुप्तादित्रितयान्तर्गते अधोलोकविचारके २ क्षत्रभेदे च । कायस्थभेदं चित्राङ्गदमुपक्रम्य “कले- र्दश सहस्राणि नागलोकेश्वरोभव । ततस्त्रिलोकनाथ स्त्वमिन्द्रतुल्योभविष्यसि” इति प्रति तं ब्राह्मणशापमुक्त्वा । “तत आनन्दमनसा गतश्चित्राङ्गदस्तलम्” इत्युक्तम् आचार निर्णयतन्त्रे । ४ गन्धर्वभेदे । हरिवं० १०८ अ० दृश्यम् । ५ अप्सरोभेद स्त्री । “अलम्बूषा घृताची च चित्रा चित्राङ्गदा रुचिः” भा० आनु० १९० । मणिपूरेश्वरचि- त्रवाहनस्य कन्यायाम् ३ अर्जुनकलत्रभेदे च स्त्री “अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् । मणिपूरेश्वरं राजन्! धर्म्मज्ञं चित्रवाहनम् । तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन् विच- [] रन्तीं यदृच्छया । दृष्ट्वा च तां वरारोहां चकमे चैत्र- वाहिनीम्” भा० आ० १२५ अ० “चित्राङ्गदा वरा- रोहानपराध्यति किञ्चन” भा० आश्व० ८१ अ०
चित्राङ्गद सू स्त्री चित्राङ्गदं सूते सू--क्विप् ६ त० । सत्य- वत्यां शान्तनुनृपकलत्रभेदे राजनि० ।
📄 मूल मुद्रित पृष्ठ (2949-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
चित्राङ्गदः, पुं, चन्द्रवंशीयराजविशेषः । स तु शान्तनुराजपुत्त्रः । विचित्रवीर्य्यभ्राता । (अयन्तु शान्तनुराजस्य स्वर्गगमनानन्तरं राज्यं लब्ध्वा ऐश्वर्य्यवीर्य्यमदेन शूरान् सर्व्वान् तृणवदमन्यत । अथ कदाचित् गन्धर्व्वराजचित्ररथः युद्धार्थमेन- मभ्ययात् । ततः कुरुक्षेत्रमध्ये प्रवृत्ते महति युद्धे समधिकमायाबलेनानेन गन्धर्व्वराजेन निहतोऽयं कौरवप्रवीरः । इत्येषा कथा महा- भारते । १ । १०१ । अध्याये द्रष्टव्या ॥) गन्धर्व्व- विशेषः । इति महाभारतम् ॥ (यथा, देवी- भागवते । १ । २० । २२ । “चित्राङ्गदस्तु गन्धर्व्वो दृष्ट्वा तं मार्गगं नृपम् । उत्तत्तारान्तिकं भूमेर्विमानवरमास्थितः ॥”) ब्रह्मपादजमसीशाख्यकायस्थस्य चित्रगुप्तादि- त्रितयान्तर्गतमूर्त्तविशेषः । स अधोलोकविवे- चकः । तस्याधोगमनकारणं यथा, -- “अधोगतस्य हेतुत्वं वगले ! शृणु कालिके ! । वगलेति मनुं प्राप्य विप्रः स्यामिति वाञ्छया ॥ तपश्चकार पञ्चाब्दं नान्यत् किञ्चिद्गृहीतवान् । फलमूलादिकं किञ्चित् सायमत्ति यथा मिलेत् ॥ विहाय विप्रस्य गुरोरपि पूजाञ्च पार्व्वति ! । जपेन्नित्यं हि वगलामन्यविप्रञ्च नेक्षयन् ॥ ज्ञात्वेति ब्राह्मणाः सर्व्वे ऊचुश्चित्राङ्गदं क्रुधा । वचो हि मधुरं किञ्चित् प्रियाद्भक्ताच्च सुन्दरि ! ॥ रे चित्राङ्गद ! अज्ञस्त्वं वत्स ! विप्रत्वमिच्छसि । कदाप्युपानन् मस्तस्थो नैवेति न हि बुध्यसे ॥ वत्स ! शीघ्रमधो गच्छ चिरं कुरु तपो मुदा ॥” चित्राङ्गदः शापं श्रुत्वा ब्राह्मणान् तुष्टाव ततो ब्राह्मणा लज्जिताः सन्तस्तमूचुः । “हे चित्राङ्गद ! हे तात वत्स ! त्वं नोत्सवः किल । दुश्चिन्तां कुरु मा तात भद्रं ते कथयाम भोः ॥ जनस्तपोबलेनैव सर्व्वं प्राप्नोत्यसंशयम् । नार्हतीशं विना तात ! ब्राह्मणो भवितुं किल ॥ इतीश्वराज्ञा वेदेऽस्ति प्रतिजानीहि तत्त्वतः । वरं प्राप्नोति देवत्वं ब्राह्मणत्वं कदापि न ॥ यथामरत्वमीशेन विना क्वापि न शासने । नोत्सवस्त्वमधो गच्छ सुखेन वगलां जप ॥ कलेर्द्दशसहस्राणि नागलोकेश्वरो भव । ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्यो भविष्यसि ॥ राज्यं भुक्त्वान्ततो नैव पुनरावर्त्तनं तव । सदा वयं तव शिवं चिन्तयामो न भीं कुरु ॥ तात गच्छ सुखं भुङ्क्ष्व नागलोकेऽपि विस्तरात् । तत आनन्दमनसा गतश्चित्राङ्गदस्तलम् ॥” इत्याचारनिर्णयतन्त्रम् ॥ (स्त्रियां टाप् । मणिपुरेश्वरस्य चित्रवाह- नस्य कन्या । यथा, महाभारते । १ । २१६ । १५ । [] “तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥”)
📄 मूल मुद्रित पृष्ठ (2-451-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬