चेष्टावल न० ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जा० उक्तं यथा “उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः । विपुलकरा युघि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परि- कल्प्याः” वृ० जा० । “अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादि राशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयन- मिति । उदगयने उत्तरायणे रविशीतमयूखौ सूर्य्य- चन्द्रमसौ बलिनौ भवतः । परिशेषाः भौमबुधगुरु- सितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेण संयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो भौमादीनां परस्परं युद्धम् । उक्तञ्चाचार्य्यविष्णुचन्द्रेण “दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम् । कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपु- लकराइति विपुलाः करा येषां ते विपुलकराः [] विस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीय- ततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन एक । कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भाग संसितो जयी स च वलवान् उत्तरसंस्थत्वमत्रोपलक्ष- णार्ग्रम् । वस्तेजस्वी स एव बलवान् । तत्रैतज्जय लक्षणम् “दक्षिणदिकस्थः परुषोवेपथुरप्राप्त सन्निकृष्ट- तनुः । अधिरूढोविकृतोनिःप्रभो विवर्णश्च यः स जितः । उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्द्दिष्टः । विपुलः स्विग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः” इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः “सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इति एतच्चेष्टाबलम् । एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तो भवति” भट्टोत्पलः ।
📄 मूल मुद्रित पृष्ठ (2965-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।