चैत्ययज्ञ पु० आश्व० गृह्योक्ते यज्ञभेदे तस्य विधानादि” यथा “चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्” सू० । चैत्ये भवाश्चैत्याः । शङ्करः पशुपतिः आर्या ज्येष्ठा इत्येवमादयः । यदि कस्यैचिद्देवतायै प्रति शृणोति यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्त्वा महमाज्येन स्थालीपाकेन पशुना वा यक्ष्यामीति ततो- लब्धे वस्तुनि तस्य तेन यागं कुर्यात् स चैत्ययज्ञः । तत्र स्विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारा- न्तेन नामधेयेन पुनश्चैत्यस्य ग्रहणं प्रत्यक्षहरणार्थम् । तेन चैत्यायतने एवोपलेपनादि कुर्य्यात्” ना० वृ० । “यद्यु बै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पते इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीबधेऽभ्याघाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्य- मिति यो दूताय” सू० । “यदि विदेशस्थं चैत्यं यजेत् तदा पलाशदूतेन बलिं हरेत् । पलाशेन दूतं वीवधञ्च कुर्यात् । यत्र वेच्छेत्यृचा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेत् । तयोरेकं पिण्डं निर्दिश्य दूतं वदति इमं तस्मै बलिं हरेति । अपरं दूताय प्रयच्छति अयं तुभ्यमिति । एतयर्चेति वचनम् अन्यत्र पादग्रहणेऽपि क्वचित् सूक्तं भवतीत्थेव मर्थम् । तेन “आत्वाहार्षमन्तरेधीति ऋषभं मा समानानामिति” च सूक्तं सिद्धम् । अन्ये पुनरभ्या- सार्थं मन्यन्ते पिण्डकरणे वीवधाभ्याधाने दूताय प्रदाने इति ना० वृ० । “प्रति भयं चेदन्तरा शस्त्रमपि किञ्चित्” सू० । “कर्त्तुश्चैत्यस्य च मध्ये भयमस्ति चेत् शस्त्रमपि किञ्चित् दद्यात् दूताय” ना० वृ० । “नाव्या चेत् नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति” सू० । “उभयोर्मध्ये यदि नावा तार्या नदी स्यात् तदा प्लवरूपमपि किञ्चित् दद्यात् अनेनेति मन्त्रेण” ना० वृ० । “धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरो- [] हितायाग्रे बलिं हरेत्” सू० । “यदि धन्वन्तरि श्चैत्यो भवति तदा व्रह्माणमग्निं चान्तरा पुरोहिता- याग्रे बलिं हरेत् पुरोहिताय नम इति ततो धन्वन्तरये नम इति । धन्वन्तरौ विदेशस्थे त्वयं विशेषः धन्वन्तरेश्च पुरोहितस्य चैकः पिण्डः द्वितीयो दूतस्य” । ना० वृ० ।
📄 मूल मुद्रित पृष्ठ (2967-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।