चोदना स्त्री चु० चुद--युच् । “चोदना चोपदेशश्च वि- धिश्चैकार्थवाचिनः” इति भट्टोक्ते प्रवर्त्तनावाक्ये ‘चोद- नालक्षणोऽर्थो घर्म्मः” इति मीमांसासूत्रम् । २ प्रेरणायां, ३ प्रवर्त्तनायाञ्च । चोद्यतेऽनया करणे बा० युच् ४ प्रवृत्तिहेतौ च “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना” गीता । “ज्ञानमिष्टसाधनमिति बोघः, ज्ञेयमिष्टसाधनं कर्म्म । परिज्ञाता एतज्ज्ञानाश्रयः, कर्म्मचोदना कर्म्म चोद्यते प्रवर्त्त्यतेऽनया चोदना ज्ञानादित्रितयं प्रवृत्तिहेतुरित्यर्थः” श्रीधरः । ५ अज्ञातार्थज्ञापके शब्दमात्रे--“चोदनाप्रवृत्ति- भेदाच्च” “या हि चोदना धर्म्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमव- बोधयत्येव केवलम्, अवबोधस्य चोदनाजन्यत्वात् न पुरुषोऽवबोधे नियुज्यते यथाऽक्षसन्निकर्षेणार्थाऽबोधे तद्वत्” शा० सू० शाङ्करभाष्यम् । “अज्ञातज्ञापकः शब्दः चोदना तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्य भेद इत्यर्थः । संग्रहवाक्यं विवृणोति या हीति लक्षणं प्रमाणं “स्वर्गकामोयजेत” इत्यादि वाक्यं हि स्वविषये धर्मे यागादिके स्वर्गभावनारूपे फलहेतुयागादि गोचरनियोगे वा हितसाधने यागादौ वा, पुरुषं प्रव- र्त्तयदेवावबोधयति “अहमात्मा ब्रह्म” इत्यादि वाक्यं तु पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्त्तयति विषयाभावात् नन्ववबोध एव विषयोऽस्तु तत्राह न पुरुष इति ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्त्यते इत्यत्र हेतुं पूर्ववाक्येनाह अवबोधस्येति । स्वजन्य- ज्ञाने स्वयं प्रमाणं न प्रवर्त्तकमित्यत्र दृष्टान्तमाह यथेति मानादेव बोधस्य जातत्वात् जाते च तस्मिन् विध्य- योगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथाच प्रवर्त्तकमानमेयो धर्मः, उदासीनमामेयं ब्रह्मेति” रत्नप्रमा । लोगाक्षिमास्करेणापि “वेदप्रतिपाद्यप्रयो- जनवदर्थो धर्म्म” इति धर्मलक्षणमुक्त्वा “चोदनालक्षणो ऽर्थो धर्म” जै० सूत्रस्थचोदनापदस्य वेदमात्रपरत्व मुररीकृतम् । तल्लक्षणे चार्थपदस्य इष्यमाणपरत्वेन [] सिद्धे इच्छाभावात् ब्रह्मणः सद्धत्वेन इष्यमाणत्वा- भावात् वेदप्रतिपाद्यत्वेऽपि नातिव्याप्तिरिति बोध्यम् । ५ चोदनाविषये यागादिप्रयत्ने च । “एकं वा संयोग रूपचोदनाऽख्याऽविशेषात्” जै० सू० । “कर्स्मैक्यप्रति- पादका संयोगरूपचोदनासंज्ञारूपाः पदार्थास्तेषा- मपिशेषादैक्यम् । “तत्र चोदना प्रवर्त्तकः शब्दः चोदित- प्रयत्नो वा” रत्नप्रभा ।
📄 मूल मुद्रित पृष्ठ (2969-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।