छन्दोदेव पु० ब्राह्मण्यां नापितेन जाते मतङ्गनामके चण्डा- लभेदे तपस्यया इन्द्रदत्तवरेण छन्दोदेवनामतां प्राप्ते स्त्रीणां पूज्ये देवभेदे तत्कथा भा० आनु० २७ अ० । “व्राह्मण्यां वृपलेन त्वं गत्तायां नापितेन ह । जात- स्त्वमसि चण्डाली ब्राह्मण्यं तेन तेऽनशत्” २७ अ० इत्यु- पक्रमे तेन निर्विद्य तपश्चरातं त प्रति इन्द्रस्य वरदानादि “नूनं दैवं न शक्यं हि पोरुषेणातिवर्त्तितुम् । तदर्थं यत्नवानेवं न लभे विप्रतां विभो! । एवं गते तु धर्म्मज्ञ । दातुमर्हसि मे वरम् । याद तेऽहपनुग्राह्यः किञ्चिद्वा [] सुकृतं मम । वंशम्पायन उवाच । वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा । चोदितस्तु महेन्द्रेण मतङ्गः प्राब्र- वीदिदम् । यथा कामविहारी स्यां कामरूपी विहङ्गमः । ब्रह्मक्षत्राविरोधेन पूजाञ्च प्राप्नुयामहम् । यथा ममा- क्षया कीर्त्तिर्भवेच्चापि पुरन्दर! । कर्त्तुमर्हसि तद्देव! शिरसा त्वां प्रसादये । शक्र उवाच । छन्दोदेव इति व्यातः स्त्रीणां पूज्यो भविष्यसि । कीर्त्तिश्च तेऽतुला त्स! त्रिषु लोकेषु यास्यति । एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत । प्राणांस्त्यक्त्वा मतङ्गोऽपि संप्राप्तः स्थानमुत्तमम्” भा० अनु० २९ अ० ।
📄 मूल मुद्रित पृष्ठ (2980-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।