🕉️ 22 November 2026, Sunday · 01:51:33 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

छत्त्रं
chattraṃ
🟣 आप्टे🟤 शब्दकल्पद्रुम
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
छत्रः A mushroom. --त्रं 1 A parasol, an umbrella; अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R. 3. 16; Ms. 7. 96. --2 Concealing the faults of [] one's teacher. --Comp. --धरः, --धारः the bearer of an umbrella. --धारण {1} carrying or bearing an umbrella; Ms. 2. 178. {2} carrying an umbrella as a type of royal authority. --पतिः {1} a king over whom an umbrella is carried as a mark of dignity, a sovereign, emperor. {2} N. of an ancient king in जंबुद्वीप. --भंगः {1} ‘destruction of the royal parasol’, loss of dominion, deposition. {2} dependence. {3} wilfulness. {4} a forlorn condition, widowhood.
📄 मूल मुद्रित पृष्ठ (0499-1c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
छ(त्र)त्त्रं, क्ली, (छादयत्यनेनातपादिकमिति । छद + णिच् + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ । १५८ । इति ष्ट्रन् णिलोपः ह्नस्वत्वञ्च ।) रौद्रवृष्टि- निवारणार्थावरणविशेषः । छाति इति भाषा ॥ तत्पर्य्यायः । आतपत्रम् २ । इत्यमरः । २ । ८ । ३२ ॥ छायामित्रम् ३ पटोटजम् ४ । इति शब्दरत्ना- वली ॥ आतपवारणम् ५ । राजच्छत्रं यथा, -- “आतपत्रञ्च राज्ञस्तु नृपलक्ष्म सितन्तु तत् । [] पुण्डरीकमथो भद्रासनं राजासनं तु यत् ॥” इति जटाधरः ॥ अपि च शब्दरत्नावल्याम् । “छत्त्रे कनकदण्डे तु रागशृङ्गमुदाहृतम् । नृपलक्ष्म भवेत्तत्तु यच्छत्त्रं पृथिवीभुजाम् ॥” तस्य गुणाः । वृष्ट्यातपधूलिवायुहिमनाशित्वम् । वर्णदृष्टिकारित्वम् । गुप्त्यावरणमङ्गलकारि- त्वञ्च । इति राजंवल्लभः ॥ * ॥ तस्योत्पत्ति- र्यथा । एकदा ज्यैष्ठमासे जमदग्निमुनिर्घनुषि बाणान् सन्धाय सन्धाय प्रचिक्षेप तत्पत्नी रेणुका तान् बाणानानीयानीय तस्मै प्रादात् । सा मध्याह्नकाले रौद्रेण पीडिता वृक्षच्छाया- सवलम्ब्य किञ्चित् कालं स्थित्वा तानानिनाय । ऋषिस्तदा क्रुद्धस्तामाह किं चिरेणागता । सा आह सूर्य्यतेजसा मे शिरः पादौ च सन्तप्तौ तेन वृक्षच्छायामाश्रित्य स्थिता तस्मात् चिरायै- तत् कृतम् । तच्छ्रुत्वा मुनिराह अद्य सूर्य्यमस्त्रा- ग्नितेजसा निपातयिष्यामीत्युक्त्वा धनुषि बाणान् सन्धाय सूर्य्याभिमुखोऽतिष्ठत् । सूर्य्यस्तं दृष्ट्वा मीतो द्विजरूपेण आगत्य आह सूर्य्यादन्नादि भवति तेनान्नेन भवद्भिः कर्म्माणि क्रियन्ते कथ- मेनं हनिष्यसि एवं माकार्षीस्तथापि मुनिः शमं न जगाम । अथ सूर्य्यः शिरस्त्राणं छत्त्रं निर्म्माय तस्मै दत्त्वा अद्यप्रभृति एतत् लोके प्रचरिष्यति व्रतादिषु च अस्य दानं महाफलं स्यादित्युक्त्वा गतः ॥ * ॥ तस्य दानफलं यथा, -- “छत्त्रं हि भरतश्रेष्ठ ! यः प्रदद्यात् द्बिजातये । शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ स शक्रलोके वसति पूज्यमानो द्विजातिभिः । अप्सरोभिश्च सततं देवैश्च भरतर्षभ ! ॥” इति महाभारते दानधर्म्मः ॥ अथ छत्त्रयुक्तिः । “विशेषश्चाथ सामान्यं छत्त्रस्य द्बिविधा भिदा । राज्ञश्छत्त्रं विशेषाख्यं सामान्यञ्चान्यदुच्यते ॥ तत्र विशेषच्छत्त्रोद्देशः । सदण्डञ्चाथ निर्द्दण्डं तज्ज्ञेयं द्बिविधं पुनः । सदण्डं तत्र विज्ञेयं सारणाकुञ्चनात्मकम् ॥ दण्डः कन्दः शलाकाश्च रज्जुर्व्वस्त्रञ्च कीलकः । षड्भिरेतैः सुसन्दिष्टैश्छत्त्रमित्यभिधीयते ॥ दिगष्टषट्चतुर्हस्तदीर्घो दण्डो युगक्रमात् । षड्बाणवेदनयनवितस्त्या कन्द उच्यते ॥ शतान्यशीतिः षष्टिश्च चत्वारिंशद्युगक्रमात् । शलाकाः षट्पञ्चवेदत्रिहस्तैः सम्मिताः क्रमात् ॥ नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः । गुणैस्तु नवभिः पाशो रश्मिस्तैर्नवभिर्भवेत् ॥ नवाष्टसप्तषट्संख्यैरश्मिभी रज्जवः क्रमात् । वस्त्रं शलाकाद्विगुणमायामेन प्रतिष्ठितम् ॥ भानुदिग्ग्रहवसुभिरङ्गुलीभिस्तु कीलकः । षण्णां षण्मानमुदितं तद्राज्ञामेव भूतये ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ॥ एतेन राज्ञो दण्डो दशहस्तः युवराजस्य तत् अन्येषामपि तदेव । [] विशुद्ध्वकाष्ठस्य तु दण्डकन्दौ तथा शलाका अपि शुद्धवंशजाः । रज्जुश्च रक्ता वसनञ्च रक्तं छत्त्रप्रसादं नृपतेर्व्वदन्ति ॥ प्रसादमिति प्रसादार्हम् । नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः । सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी । छत्त्रं मनोहरं राज्ञां स्वर्णकुम्भोपशोभितम् ॥ शुक्लानि रज्जुवासांसि स्वर्णकुम्भस्तथोपरि । इदं कनकदण्डाख्यं छत्त्रं सर्व्वार्थसाधकम् ॥ दण्डकन्दशलाकाश्च शुद्धस्वर्णेन निर्म्मिताः । कीलकं स्वर्णघटि
छ(त्र)त्त्रं, क्ली, (छादयत्यनेनातपादिकमिति । छद + णिच् + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ । १५८ । इति ष्ट्रन् णिलोपः ह्नस्वत्वञ्च ।) रौद्रवृष्टि- निवारणार्थावरणविशेषः । छाति इति भाषा ॥ तत्पर्य्यायः । आतपत्रम् २ । इत्यमरः । २ । ८ । ३२ ॥ छायामित्रम् ३ पटोटजम् ४ । इति शब्दरत्ना- वली ॥ आतपवारणम् ५ । राजच्छत्रं यथा, -- “आतपत्रञ्च राज्ञस्तु नृपलक्ष्म सितन्तु तत् । [] पुण्डरीकमथो भद्रासनं राजासनं तु यत् ॥” इति जटाधरः ॥ अपि च शब्दरत्नावल्याम् । “छत्त्रे कनकदण्डे तु रागशृङ्गमुदाहृतम् । नृपलक्ष्म भवेत्तत्तु यच्छत्त्रं पृथिवीभुजाम् ॥” तस्य गुणाः । वृष्ट्यातपधूलिवायुहिमनाशित्वम् । वर्णदृष्टिकारित्वम् । गुप्त्यावरणमङ्गलकारि- त्वञ्च । इति राजंवल्लभः ॥ * ॥ तस्योत्पत्ति- र्यथा । एकदा ज्यैष्ठमासे जमदग्निमुनिर्घनुषि बाणान् सन्धाय सन्धाय प्रचिक्षेप तत्पत्नी रेणुका तान् बाणानानीयानीय तस्मै प्रादात् । सा मध्याह्नकाले रौद्रेण पीडिता वृक्षच्छाया- सवलम्ब्य किञ्चित् कालं स्थित्वा तानानिनाय । ऋषिस्तदा क्रुद्धस्तामाह किं चिरेणागता । सा आह सूर्य्यतेजसा मे शिरः पादौ च सन्तप्तौ तेन वृक्षच्छायामाश्रित्य स्थिता तस्मात् चिरायै- तत् कृतम् । तच्छ्रुत्वा मुनिराह अद्य सूर्य्यमस्त्रा- ग्नितेजसा निपातयिष्यामीत्युक्त्वा धनुषि बाणान् सन्धाय सूर्य्याभिमुखोऽतिष्ठत् । सूर्य्यस्तं दृष्ट्वा मीतो द्विजरूपेण आगत्य आह सूर्य्यादन्नादि भवति तेनान्नेन भवद्भिः कर्म्माणि क्रियन्ते कथ- मेनं हनिष्यसि एवं माकार्षीस्तथापि मुनिः शमं न जगाम । अथ सूर्य्यः शिरस्त्राणं छत्त्रं निर्म्माय तस्मै दत्त्वा अद्यप्रभृति एतत् लोके प्रचरिष्यति व्रतादिषु च अस्य दानं महाफलं स्यादित्युक्त्वा गतः ॥ * ॥ तस्य दानफलं यथा, -- “छत्त्रं हि भरतश्रेष्ठ ! यः प्रदद्यात् द्बिजातये । शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ स शक्रलोके वसति पूज्यमानो द्विजातिभिः । अप्सरोभिश्च सततं देवैश्च भरतर्षभ ! ॥” इति महाभारते दानधर्म्मः ॥ अथ छत्त्रयुक्तिः । “विशेषश्चाथ सामान्यं छत्त्रस्य द्बिविधा भिदा । राज्ञश्छत्त्रं विशेषाख्यं सामान्यञ्चान्यदुच्यते ॥ तत्र विशेषच्छत्त्रोद्देशः । सदण्डञ्चाथ निर्द्दण्डं तज्ज्ञेयं द्बिविधं पुनः । सदण्डं तत्र विज्ञेयं सारणाकुञ्चनात्मकम् ॥ दण्डः कन्दः शलाकाश्च रज्जुर्व्वस्त्रञ्च कीलकः । षड्भिरेतैः सुसन्दिष्टैश्छत्त्रमित्यभिधीयते ॥ दिगष्टषट्चतुर्हस्तदीर्घो दण्डो युगक्रमात् । षड्बाणवेदनयनवितस्त्या कन्द उच्यते ॥ शतान्यशीतिः षष्टिश्च चत्वारिंशद्युगक्रमात् । शलाकाः षट्पञ्चवेदत्रिहस्तैः सम्मिताः क्रमात् ॥ नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः । गुणैस्तु नवभिः पाशो रश्मिस्तैर्नवभिर्भवेत् ॥ नवाष्टसप्तषट्संख्यैरश्मिभी रज्जवः क्रमात् । वस्त्रं शलाकाद्विगुणमायामेन प्रतिष्ठितम् ॥ भानुदिग्ग्रहवसुभिरङ्गुलीभिस्तु कीलकः । षण्णां षण्मानमुदितं तद्राज्ञामेव भूतये ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ॥ एतेन राज्ञो दण्डो दशहस्तः युवराजस्य तत् अन्येषामपि तदेव । [] विशुद्ध्वकाष्ठस्य तु दण्डकन्दौ तथा शलाका अपि शुद्धवंशजाः । रज्जुश्च रक्ता वसनञ्च रक्तं छत्त्रप्रसादं नृपतेर्व्वदन्ति ॥ प्रसादमिति प्रसादार्हम् । नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः । सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी । छत्त्रं मनोहरं राज्ञां स्वर्णकुम्भोपशोभितम् ॥ शुक्लानि रज्जुवासांसि स्वर्णकुम्भस्तथोपरि । इदं कनकदण्डाख्यं छत्त्रं सर्व्वार्थसाधकम् ॥ दण्डकन्दशलाकाश्च शुद्धस्वर्णेन निर्म्मिताः । कीलकं स्वर्णघटितमश
छत्त्रः, पुं, (छद + णिच् + ष्ट्रन् ह्रस्वश्च ।) मूलेन पत्रेन च वचाकारवृक्षः । छातारियाविष । छातनाविष । खरविष इति च भाषा । तत्- पर्य्यायः । अतिच्छत्त्रः २ कटुः ३ । इति रत्न- माला ॥ भूततृणम् । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-465-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें