🕉️ 26 November 2026, Thursday · 04:46:40 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

छागलाद्यं
chāgalādyaṃ
🟤 शब्दकल्पद्रुम
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
छागलाद्यं, क्ली, (छागल आद्यः प्रधानो यत्र ।) छागलादिघृतम् । तच्च वातरोगस्यौषधम् । यथा, “आजं चर्म्मविनिर्म्मुक्तं त्यक्तशृङ्गनखादिकम् । पञ्चमूलीद्बयञ्चैव जलद्रोणे विपाचयेत् ॥ तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरी ॥ छागलाद्यमिदं नाम्ना सर्व्ववातविकारणुत् । अर्दिते कर्णशूले च वाधिर्य्ये मूकमिन्मिने ॥ जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः । अपतानेऽपतन्त्रे च सर्पिरेतत् प्रशस्यते ॥ पृथगर्द्धतुलां पञ्चमूलद्बन्द्बाजमांसयोः । निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते ॥” इति स्वल्पच्छागलाद्यं घृतम् ॥ * ॥ घृतारर्म्भ मन्त्रः । “ओँ कालि वज्रेश्वरि अमुकस्य फलसिद्धं देहि रुद्रवचनेन खाहा । स्नापयित्वा छागमादौ मधु दत्त्वा ललाटके । उदङ्मुखः प्राङ्मुखो वा भिषगेनमुपालभेत् ॥ छागमारणमन्त्रः । ओँ हाँ ओँ गोँ गणपतये स्वाहा । छागमांसतुलां गृह्य दशमूल्याः पलं शतम् । अश्वगन्धापलशतं वाट्यालकशतं तथा ॥ घृताढकं पचेत्तोयैश्चतुर्भागावशेषितैः । [] क्षीरं स्नेहसमं दद्यात् शतावर्य्या रसं तथा ॥ ताम्रपात्रे दृढे चैव शनैर्मृ द्वग्निना पचेत् । अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम् ॥ जीवन्ती मधुकं द्राक्षाकाकोल्यौ नीलमुत्पलम् । मुस्तं सचन्दनं रास्ना पर्णिनीद्वयशारिवे ॥ मेदे द्वे च तथा कुष्ठं जीवकर्षभकौ शटी । दार्व्वी प्रियङ्गु त्रिफला नतं तालीशपद्मकौ ॥ एलापत्रं वरीनागजातीकुसुमधान्यकम् । मञ्जिष्ठा दाडिमं दारु रेणुकं शैलवालुकम् ॥ विडङ्गं जीरकञ्चैव पेषयित्वा विनिक्षिपेत् । वस्त्रपूते च शीते च शर्कराप्रस्थसंयुतम् ॥ निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे । अस्यौषधस्य सिद्धस्य शृणु वीर्य्यमतःपरम् ॥ देवदेवं नमस्कृत्य संपूज्य गणनायकम् । पिबेत् पाणितलं तस्य व्याधिं वीक्ष्यानु- पानतः ॥ सर्व्वबातविकारेषु अपस्मारे विशेषतः । उन्मादे पक्षघाते च आध्माने कोष्ठनिग्रहे ॥ कर्णरोगे शिरोरोगे वाधिर्य्ये चापतन्त्रके । भूतोन्मादे च गृध्रस्यां सोद्गारे चाक्षिपातजे ॥ पार्श्वशूले च हृच्छूले वाह्यायामार्द्दिते तथा । वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले ॥ क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मनि मिन्मिने । अपतानेऽन्तरायामे रक्तपित्ते तथोर्द्ध्वगे ॥ आनाहेऽर्शोविकारेषु चातुर्थकज्वरेऽपि च । हनुग्रहे तथा शोषे क्षीणे चैवावबाहुके ॥ दण्डापतानके भग्ने दाहे चाक्षेपके तथा । जीर्णज्वरे विषे कुष्ठे शेफःस्तम्भे मदात्यये ॥ आद्यवातेऽग्निमान्द्ये च वातरक्तगदेषु च । एकाङ्गरोगिणे चैव तथा सर्व्वाङ्गरोगिणे ॥ हस्तकम्पे शिरःकम्पे जिह्वाकम्पे जडे भ्रमे । क्षीणेन्द्रिये नष्टशुक्रे शुक्रनिःसरणे तथा ॥ स्त्रीणां वातास्रपाते च पटले चाक्षिस्पन्दने । एकाङ्गस्पन्दने चैव सर्व्वाङ्गस्पन्दने तथा ॥ नगादिपतिते वाते स्त्रीणामप्राप्तिहेतुके । आभिचारिकदोषे च धनसन्तापसम्भवे ॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः । शिरोमध्यगता ये च जङ्घापार्श्वादिसंस्थिताः ॥ मातृग्रहाभिभूतश्च शिशुर्यश्च विशुष्यति । प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः ॥ घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान् । निहन्ति सकलान् रोगान् घृतं परमदुर्लभम् ॥ रसायनं वह्निबलप्रदञ्च वपुःप्रकर्षं विदधाति रूपम् । दन्तावलेन्द्रेण समानतेजा दीर्घायुषं पुत्त्रशतं करोति ॥ स्त्रीणां शतं गच्छति वातिरेकं न याति तृप्तिं सरसः समाङ्गः । अपुत्त्रिणीपुत्त्रशतं करोति शतायुषं कामसमं बलिष्ठम् ॥ महद्घृतं नाम तु छागलाद्यं विनिर्म्मितं वातनिसूदनञ्च । [] शिवं शुभं रोगभयापहञ्च चकार हारीतमुनिर्व्विशिष्टः ॥ शृगालवर्हिणः पाके पुमांसं तत्र दापयेत् ।
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬