छागी, स्त्री, (छायते छिद्यते देवोपहारायेति । छो + “छापूखडिभ्यः कित् ।” उणां । १ । १२४ । इति गण् छागः ततः स्त्रियां जातौ ङीष् ।) छागमाता । वक्री इति पाँटी इति च भाषा । तत्पर्य्यायः । अजा २ पयस्विनी ३ भीरुः ४ मेध्या ५ गलेस्तनी ६ । इति राजनिर्घण्टः ॥ छागिका ७ मञ्जा ८ सर्व्वभक्ष्या ९ गलस्तनी १० । इति हेमचन्द्रः ॥ चुलुम्पा ११ । इति त्रिकाण्ड- शेषः ॥ सञ्जा १२ मुखविलुण्ठिका १३ । इति शब्दरत्नावली ॥ तद्दुग्धगुणाः । मधुरत्वम् । शीतलत्वम् । ग्राहित्वम् । दीपनत्वम् । रक्त- पित्तविकारक्षयकासनाशित्वञ्च । यथा, राज- निर्घण्टे । [] “अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् । नात्यम्बुपानात् व्यायामात् सर्व्वव्याधिहरं पयः ॥” कषायत्वम् । लघुत्वम् । अतीसारज्वरनाशि- त्वञ्च । यथा, भावप्रकाशे । “छागं कषायं मधुरं शीतं ग्राहि पयो लघु । रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् ॥ अजानामल्पकायत्वात् कटुतिक्तादिभक्षणात् । स्तोकाम्बुपानाद्व्यायामात् सर्व्वरोगापहं पयः ॥” तद्दधिगुणाः । उत्तमत्वम् । ग्राहित्वम् । लघु- त्वम् । दोषत्रयापहत्वम् । श्वासकासार्शःक्षय- कार्श्येषु शस्तत्वम् । दीपनत्वञ्च । इति भाव- प्रकाशः ॥ कफवातनेत्रदोषदुर्नामश्वासकास- नाशित्वम् । उष्णत्वम् । रुच्यत्वम् । पाचनत्वञ्च ॥ तन्नवनीतगुणाः । लघुत्वम् । मधुरत्वम् । कषा- यत्वम् । त्रिदोषनाशित्वम् । चक्षुष्यत्वम् । दीप- नत्वम् । बल्यत्वम् । सदा हितत्वञ्च ॥ तन्नवोत्थ- नवनीतगुणाः । क्षयकासनेत्रामयकफनाशित्वम् । बल्यत्वम् । परमदीपनत्वञ्च ॥ तद्घृतगुणाः । चक्षुष्यत्वम् । दीपनत्वम् । बलवर्द्धनत्वम् । कास- श्वासकफनाशित्वम् । राजयक्ष्मणि शस्तत्वञ्च । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-489-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।