🕉️ 27 November 2026, Friday · 01:27:14 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

छायापुरुष
chāyāpuruṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
छायापुरुष संज्ञा पुं॰ [सं॰] हठयोग के अनुसार मनुष्य की छायारूप आकृति जो आकाश की ओर स्थिर दृष्टि से बहुत देर तक देखते रहने की साधना करने से दिखाई पड़ती है । विशेष—तत्र में लिखा है कि इस छायारूप आकृति के दर्शन से छह महीने के भीतर होनेवाली भविष्य बातों का पता लग जाता है । यदि पुरुष की आकृति पूरी पूरी दिखाई पड़े तो समझना चाहिए कि छह महीने के भीतर मृत्यु नहीं हो सकती । यदि आकृति मस्तकशून्य दिखाई पड़े़ तो समझना चाहिए कि छह महीने के भीतर अवश्य मृत्यु होगी । यदि चरण न दिखाई पड़े तो भार्या की मृत्यु और यदि हाथ न दिखाई पड़े तो भाई की मृत्यु निकट समझनी चाहिए । यदि छायापुरुष की आकृति रक्तवर्ण दिखाई पड़े तो समझना चाहिए कि धन की प्राप्ति होगी । इसी प्रकार की और बहुत सी कल्पनाएँ हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
छाया—पुरुष m. Puruṣa in the form of a shadow, Tantr.
📄 मूल मुद्रित पृष्ठ (406,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
छायापुरुष पु० छायायां दृश्यः पुरुषः पुरुषाकृतिः । आकाशे द्रष्टव्ये निजच्छायानुरूपे पुरुषाकृतियुक्ते पदार्थे । तद्दर्शनोपायमाह योगप्रदीपिकायाम् ५ पटले “शिव उवाच । निरभ्रं गगनं देवि! यदा भवति निर्म्म- लम् । तदा छायामुखो भूत्वा निश्चलः प्रयतो धिया । स्वच्छायाकल्पमालोक्य स्वगुरूक्तक्रमेण वै । सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः । शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते । न दृश्यत यदा तत्र पुनस्तद्वत् परी- क्षयेत् । बहुधा दर्शनेनैव साक्षात्कारो भवेत् ध्रुवम् । कस्यचित् भाग्यतो दृश्यो यदि विम्बोऽक्षिगोचरः । भव- त्येव न सन्देहो गुरुविश्वासतः शिवे! । गरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः । तथा षण्मासप- र्य्यन्तं मृत्युस्तस्य न विद्यते । शिरोहीनं यद्रा पश्येत् षण्मासाभ्यन्तरे मृतिः । यदा पादौ न दृश्येते भार्य्या- हानिर्न संशयः । न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः । एतज् ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समा- श्रयेत् । योगाभ्यासेन सततं प्राणायामेन संस्कृतः । यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् । योह्य भुक्तो हविष्याशी यतवाग्यतमानसः । मृत्युञ्जयेन्न सन्देहो अन्यथा मृत्युमृच्छति । यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा । तस्य शान्तिं प्रकुर्व्वीत शिवसेवां समाहितः । रक्तवर्णं यदा पश्येदैश्वर्थ्यं भवति ध्रुवम् । मध्यच्छिद्रं यदा पश्येत शत्रुघातो भवेत्तदा । एवं सन्दशनं दवि! ज्ञानवान् भवति ध्रुवम । नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम । तत्प्रसादान्महा- योगी भूत्वा लोकांश्चरत्यसौ । स्वच्छायादर्शन देवि । [] कलौ पुरुषलक्षणम् । दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्मलम्” ।
📄 मूल मुद्रित पृष्ठ (2997-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
छायापुरुषः, पुं, (छायायां दृष्टः पुरुषः पुरुषा- कृतिविशेषः ।) आकाशेदृष्टः स्वीयच्छायारूप पुरुषः । यथा, -- श्रीदेव्युवाच । “भगवन् ! देवदेवेश ! सर्व्वागमविशारद ! । नराणां पापिनां लोके पापनिर्म्मोचनं कथम् ॥ कालज्ञानं कथं वा स्यात् सूक्ष्मोपायेन तद्वद । श्रुतानि साधनानीश ! मयानेकानि भूरिशः ॥ तथापि तानि मनुजैरशक्यान्यल्पबुद्धिभिः । प्रायेण मनुजा लोके कलौ स्वल्पायुषो ध्रुवम् ॥ अनेकवर्षसाध्येऽस्मिन् योगाभ्यासे ह्यशक्तयः ॥ शिव उवाच । साधु देवि ! त्वया पृष्टं लोकानां हितकाम्यया । तादृशं साधनं वक्ष्ये सर्व्वसाधारणं लघु ॥ गोपनीयं प्रयत्नेन न वाच्यं वै कथञ्चन । सिद्धाय भक्तियुक्ताय सेवकाय सुचेतसे ॥ पापिने क्रूरचेष्टाय भक्तिहीनाय भामिनि ! । न वदेद्यदि वा मोहात् वदेत् सिद्धिं न विन्दति ॥ तस्मात् परीक्ष्य वक्तव्यं शिष्याय ज्ञानिने शिवे ! । स्वच्छायापुरुषं पश्येद्गगने शुद्धमानसः ॥ तस्यावलोकनात् सद्यः पापराशिर्व्विनश्यति । महापातकसङ्घैश्च तत्समैश्चोपपातकैः ॥ विमुच्यते क्षणार्द्धेन तूलराशिर्यथानलात् । कालज्ञानञ्च षण्मासे तस्मिन् दृष्टे भवेद्ध्रुवम् ॥ देव्युवाच । अतश्छायां कथं पश्येद्गगने भूतलस्थिताम् । षण्मासकालज्ञानञ्च तस्मिन् दृष्टे कथं भवेत् ॥ शिव उवाच । निरभ्रं गगनं देवि ! यदा भवति निर्म्मलम् । तदा छायामुखो भूत्वा निश्चलं प्रयतो घिया ॥ [] स्वच्छायाकण्ठमालोक्य स्वगुरूक्तक्रमेण वै । सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः ॥ शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते । न दृश्यते यदा तत्र पुनस्तद्वत् परीक्षयेत् ॥ बहुधा दर्शनेनैव साक्षात्कारो भवेद् ध्रुवम् । कस्यचिद् भाग्यतः पश्येद् यदि विम्बोऽक्षिगोचरः । भवत्येव न सन्देहो गुरुविश्वासतः शिवे ! । गुरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः ॥ तथा षण्मासपर्य्यन्तं मृत्युस्तस्य न विद्यते । शिरोहीनं यदा पश्येत् षण्मासाभ्यन्तरे मृतिः ॥ यदा पादौ न दृश्येते भार्य्याहानिर्न संशयः । न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः ॥ एतज्ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समाश्रयेत् । योगाभ्यासेन सततं प्राणायामेण संस्मृतिः ॥ यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् । यो न भुक्तो हविष्याशी यतवाग् यतमानसः ॥ मृत्युञ्जयेन्न सन्देहो ह्यन्यथा मृत्युमृच्छति । यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा ॥ तस्य शान्तिं प्रकुर्व्वीत शिवसेवां समाहितः । रक्तवर्णं यदा पश्येदैश्वर्य्यं भवति ध्रुवम् ॥ मध्यच्छिद्रं यदा पश्येत् शत्रुघातो भवेत्तदा । एवं सन्दर्शनाद् देवि ! ज्ञानवान् भवति ध्रुवम् ॥ नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम् । तत्प्रसादान्महायोगी भूत्वा लोकांश्चरत्यसौ ॥ स्वच्छायादर्शनं देवि ! कलौ पुरुषलक्षणम् । दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्म्मलम् ॥” इति योगप्रदीपिकायां उमामाहेश्वरसंवादे छायापुरुषलक्षणं नाम पञ्चमः पटलः ॥ * ॥ “ओमस्य श्रीच्छायापुरुषग्रहणमन्त्रस्य ब्रह्मर्षि- र्बृहद्गायत्त्री छन्दः छायादेवी देवताः हां बीजं स्वाहा शक्तिः पुरुष इति कीलकं सर्व्व- सिद्धिसन्दर्शनसिद्ध्यर्थे जपे विनियोगः । हामि- त्यादि षडङ्गन्यासः ॥ मायया मायया लोँ लोँ हीँ माया शिवविचार्य्या ऋषयः ओँ हीँ अं गां सरस्वति ओँ नमो भगवते भूतशरीर- मात्मानमाकाशे दर्शय दर्शय त्राँ त्राँ त्राँ हीँ भैरवाय नमः स्वाहा । इति मन्त्रः ॥ पादाभावे च पुत्त्रं वा बाह्वभावे च बान्धवम् । आत्मानं शिरसोऽभावे सर्व्वाभावे कुलक्षयम् ॥ विशीर्णे विधृते धूते कुम्भे धूमे च विज्वरम् । दुर्भिक्षं जायते घोरं कज्जले च पराङ्मुखे ॥ संपूर्णे च मुखे सूक्ष्मे क्षेमलाभं सुसिद्धये । हीने रक्ते जये शीते उष्णे मृत्युर्न संशयः ॥ प
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬