छालिक्य पु० छलिके रूपकभेदे भवः ष्यञ् । गानभेदे । तच्च गानं देवलोके स्थितं वासुदेवेन तत आनीय नरलोके प्रचारितं यथाह हरिवं० १४८ अ० । “छालिक्यगानं बहु संविधानं यद्देवगान्धर्वमुदाहरन्ति । जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियु- क्ताम् । हल्लीषकन्तु स्वयमेव कृष्णः सुवंशघोषं नरपप्रियार्थम् । मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरास्ता जगृहुः [] प्रतीताः । आसारितान्ते च ततः प्रतीता रम्भोत्थिता स्वाभिनयाय तज्ज्ञा । तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्द्दनश्च । अथोर्वशो चारु विशालनेत्रा हेमा च राजन्नथ मिश्रकेशी । तिलोत्तमा चाप्यथ मेनका च एतास्तथाऽन्याश्च हरिप्रियार्थम् । जगु स्तथैवाभिनयञ्च चक्रुरिष्टैश्च कामैर्म्मनसोऽनुकूलैः ता वासुदेवेऽप्यनुरक्तचित्तः संनृत्यगीताभिनयैरुदारैः । नरेन्द्रसूनो! परितोषितेन ताम्बूलयोगेन वराप्सरोभिः । तदागताभिर्नृवराहृतास्तु कष्णेप्सया मानमयास्तथैव । फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथा हृतञ्च । कृष्णेच्छया च त्रिदिवान्नृदेव! अनुग्रहार्थ भुवि मानुषाणाम् । स्थितञ्च रम्यं हरितेजसैव प्रर्य जयामास स रौक्मिणेयः । छालिक्यगान्धर्वमुदारवु स्तेनैव ताम्बूलमथ प्रयुक्तम् । प्रयोजितं पञ्चभिरिन्द्र तुल्यैश्छालिक्यमिष्टं सततं नराणाम् । शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम् । पुण्यञ्च पुष्ट्यभ्युदयावहञ्च नारायणस्येष्टमुदारकीर्त्ति । जया- वहं धर्मधुरावहञ्च दुःस्वप्ननाशं परिकीर्त्त्यमानम् । करोति पापञ्च तथा विहन्ति शृण्वन् सुरावासगतो नरेन्द्रः । छालिक्यगन्धर्वमुदारकीर्त्तिर्मेने किलैकं दिवसं सहस्रम् । चतुर्युगानां नृपरेवतोऽथ ततः प्रवृत्ता सुकुमारजातिः । गान्धर्वजातिश्च तथा प- राणि दीपाद्यथा दीपशतानि रजन्! । विवेद कृष्णश्च सनारदश्च प्रद्युम्नमुख्यैर्नृपभैममुख्यैः । विज्ञात मेतद्धि परं यथावदद्देशमात्राणि जनैस्तु लोके । जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथ वा समुद्रे । ज्ञातुं हि शक्यं हिमवान् गिरिर्व्वा पलाग्र- तो वा गुणतोऽथ वापि । शक्यं न च्छालिक्यमृते तपोमिस्ताने विधानान्यथ मूर्छनासु । षड्ग्रामरागेषु च तत्र कार्य्यं तस्यैकदेशावयवेन राजन्! । लेशामिधानं सुकुमारजातिं निष्ठा सुदुःखेन नराः प्रयान्ति । छाल- क्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसघाः । निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन । भैमोत्तमानां नरदेव! दत्तं लोकस्य चानुग्रहकाम्ययैव” ।
📄 मूल मुद्रित पृष्ठ (2998-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।