जम्बीरः, पुं, (जम्यते भक्ष्यते इति । जमु भक्षे + “गम्भीरादयश्च ।” इति निपातनात् ईरन् प्रत्ययेन साधुः ।) फलवृक्षविशेषः । जामीर इति लेवु इति च भाषा । तत्पर्य्यायः । दन्त- शठः २ जम्भः ३ जंम्भीरः ४ जम्भलः ५ । इत्यमरः । २ । ४ । २४ ॥ जम्भी ६ रोच- नकः ७ शोधी ८ जाड्यारिः ९ दन्तहर्षणः १० गम्भीरः ११ जम्बिरः १२ दन्तकर्षणः १३ । इति शब्दरत्नावली ॥ रेवतः १४ वक्त्रशोधी १५ दन्तहर्षकः १६ । इति जटाधरः ॥ तस्य गुणाः । [] “जम्बीरमुष्णं गुर्व्वम्लं वातश्लेष्मविबन्धनुत् । शूलं कासकफक्लेशच्छर्द्दितृष्णामदोषजित् ॥ आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन् हरेत् । स्वल्पजम्बीरिका तद्वत् तृष्णाच्छर्द्दिनिवारिणी ॥” इति भावप्रकाशः ॥ तस्य फलस्य गुणाः । अम्लमधुररसत्वम् । वात- नाशित्वम् । पथ्यत्वम् । पाचनत्वम् । रोचन- त्वम् । पित्तबलाग्निवृद्धिकारित्वञ्च । इति राज- निर्घण्टः ॥ अत्यम्लत्वम् । गुरुत्वम् । सुगन्धि- लम् । दुर्ज्जरत्वम् । वह्निकफवातविबन्धनाशि- त्वञ्च । इति राजवल्लभः ॥ पक्वस्य तस्य गुणाः । मधुरत्वम् । कफार्त्तिपित्तास्रदोषनाशित्वम् । वर्णवीर्य्यरुचिपुष्टितृप्तिकारित्वञ्च । मरुवकः । अर्जकः । सितार्जकः । इति राजनिर्घण्टः ॥ (क्षुद्रपत्त्रतुलसी । यथा, वैद्यकरत्नमालायाम् । “खरपर्णस्तु जम्बीरः प्रस्थपुष्पः फणिज्झकः ॥”)
📄 मूल मुद्रित पृष्ठ (2-513-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।