🕉️ 26 November 2026, Thursday · 01:53:22 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

जगद्धातृ
jagaddhātṛ
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
जगद्—धातृ m. ‘world-creator’, Viṣṇu, BrahmaP. ii, 10, 18 and 18, 3; VarP. clxix, 2.
📄 मूल मुद्रित पृष्ठ (408,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जगद्धातृ पु० ६ त० । १ परमेश्वरे । दुर्गामूर्त्तिभेदे स्त्री ङीप् । तस्याः पूजाकालव्यवस्था । निगमकल्पसारे ज्ञानसारस्वते ग्रन्थे च दुर्गाकल्पे “श्रीशिव उवाच । प्रसीद जगतां मातर्ज्जगन्निस्तारका- रिणि! । अतएव महेशानि! तवाहं शरणागतः । त्वया यत् कथितं पूर्वं तत्सर्वञ्च श्रुतं मया । जग- द्धात्री महादुर्गा चतुर्वर्गफलप्रदा । तम्याः पूजाविधि- दिनं कालस्तन्न प्रकाशितम् । तदेव कथयेशानि । श्रेतुमिच्छामि साम्प्रतम् । श्रीदेव्युवाच । कथयामि महेशान! सावधानावधारय । तस्याः पूजाविधि- दिनं समयं भावभेदतः । कार्त्तिके शुक्लपक्षे च या दुर्गानवमी तिथिः । सा प्रशस्ता महादेव! महादुर्गा- प्रपूजने । प्रातश्च सात्विकी पूजा मध्याह्ने राजसी मता । सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता । जपयज्ञादिभिर्देव! इति त्रैकालिकी मता । अथान्यत मंप्रवक्ष्यामि शृणुष्व परमेश्वर! । सप्तम्यादि नवम्यान्तं पूजाकाल इतीरितः । त्रिदिने त्रिविधा पूजा दशम्याञ्च विसर्ज्जयेत् । पूजा परेऽह्नि देवेश! तत्राप्यत्र विसर्जनम् । वेधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता । शिव उवाच, त्रिसन्ध्याऽव्यापिनी सा तु यदि स्यान्नवसी तिथिः । त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि! । कथयस्व महेशानि! इति मे संशयोहृदि । श्रीदेव्युवाच । सा प्रात र्व्यापिनी यत्र वासरे नवमी तिथिः । त्रिसन्ध्यं पूजये- त्तत्र वासरे जरदम्बिकाम् । मुहूर्त्तव्यापिनी चापि तत्र ग्राह्या महेश्वर! । एककाले त्रिधा पूजां साधकोनैव कारयेत्” । तत्पूजायां दशम्या बलिदाननिषेधः तन्त्रान्तरे “श्री पार्वत्युवाच । दशम्यां वलिदानन्तु निषिद्धं जगदी- श्वर! । कथं त्रिकालं पूजा सा सम्भवत् परमेश्वर! । शिव उवाच “नवमीतिथिमाश्रित्य यत्र पूजाविथि- र्भवेत् । निषिद्धं बलिदानन्तुं दशम्यां तत्र सुन्दरि! । नवमीदिनमाश्रित्य पूजाबिधिरिहोदितः । दशम्यां [] बलिदानन्तु निषिद्धं नात्र पार्वति” । ज्ञानामृतसारे पूर्वं प्रकारमुक्त्वा “मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमी तिथिः । तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि! । त्रिकालं पूजयेत्तत्र नैककाले कदाचन” । कात्यायनीतन्त्रे ७ पदले । “कुम्भराशिगते चन्द्रे नवम्यां कार्त्ति- कस्य च । उषस्यर्द्धोदितो भानुर्दुर्गामाराध्य यत्न- वात् । पुत्रारोग्यं बलं लेभे लोकसाक्षित्वमेव च । तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि । प्रपूज- येन्महादुर्गां धर्म्मकामार्थमोक्षदाम्” । शक्तिसङ्ग- मतन्त्रे “कार्त्तिकस्य सिते पक्षे नबम्यां जगदीश्वरीम् । त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् । मृण्मयीं प्रतिमां शक्त्या जयद्धात्र्या विधानतः । पूजयित्वा परदिने प्रतिमां तां विसर्ज्जयेत् । पुत्रपौत्रधनैश्वर्य्य संयुताऽस्य भवेत् पुरी” । तन्त्रान्तरे । “कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः । प्रादुर्भूता महेशानी तत्र तां परिपूजयेत्” तन्त्रान्तरे । “त्रि- कालं पूजयेद्दुर्गां मूलेनैकाक्षरेण च(दूँ) । नानारत्नविधा- नेन गीतवाद्यपुरःसरम् । कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः । कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम्” । योगिनीरन्त्रे “कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशे- षतः । उद्बुद्धान्तु जगद्धात्रीं पूजयेद्दीपमालया” आगम तत्त्वसारे “कार्त्तिकेऽमलपक्षे तु नवम्याः भौमवासरे । धाविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी” । उत्तरकामा- ख्यातन्त्रे “कार्त्तिके शुक्लपक्षे तु त्रेयायां प्रथमेऽ- हनि । त्रिसन्ध्यं पूजयेद्देवीं दुर्गां मम्पत्प्रवृद्धये” । कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां जगद- म्बिकाम् । दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थस
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬