जगद्बल पु० जगतां बलमस्मात् । वायौ त्रिका० । तस्यैव व्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्या छान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा “अथोयान्यन्या- नि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणं दृतस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत” । बलस्य च सर्वक्रिया हेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा “बलं वाव वि- ज्ञानाद्भूयोऽपि ह शतं विज्ञानवताभको वलवानाकम्प- यते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिच- रिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रीता भवति मन्ता भवति बोद्धा भवति कर्त्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्वलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च- वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपी- लकं बलेन लोकस्तिष्ठति बलसुपास्स्वेति” । सर्वक्रियाणां वायुकार्य्यत्वं च सुश्रुते दर्शितं यथा “वायव्याः स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टादयः सर्वशरीरस्पन्दनं लघुता च” [] तेन सर्ववष्टान्तां वायुकार्य्यत्वोक्त्या बलस्य च तत्र हेतु- त्वोक्त्या च वायोरेव बलहेतुत्वमवसीयते ।
📄 मूल मुद्रित पृष्ठ (3006-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।