जङ्गमविष न० सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा “अथाऽतो जङ्गमविषविज्ञानीयमध्यायं व्याख्यास्यामः । जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश । समासेन मया यानि विस्तरस्तेषु वक्ष्यते । तत्र दृष्टिनिःश्वास- दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखसन्दंशविशर्द्धितगुदा- स्थिपित्तशूकशवानीति । तत्र दृष्टिनिःश्वासविषास्तु दिव्याः सर्पाः । भौमास्तु दंष्ट्राविषाः । मार्जारश्ववा- नरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाक (सौम्यकीटभेदः) गृहगोधिका कृकलासचतुष्पादकीटास्तथान्ये दंष्ट्रान- खविषाः । चिपिटपिच्चटककषायवासिकसर्षपवासिक तोटकवर्च्चःकीटकौण्डिल्यकाःशकृन्मूत्रविषाः । मूषिकाः शुक्रविषाः । लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रा- र्त्तवविषाः । वृश्चिकविश्वम्भरराजीवमतस्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चालविषाः (अनःपुच्छाग्रवर्त्तिकण्ठकः) (हुल) इति । चित्रशिरःसरावकुर्दिशतदारुकारिमेदक- शारिकामुखामुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः । मक्षि- [] काकणभजलायुका मुखसन्दंशविषाः । विषहतास्थिसर्पक- ण्टकवरटीमत्स्यास्थिकेत्यस्थिविषाणि । शकुलीमत्स्यरक्त- राजीवरकमत्स्याश्च पित्तविषाः । सूक्ष्मतुण्डोच्चिटिङ्ग- वरटाशतपदीशूकवलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः । कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखस- न्दंशविषेष्वेव गणयितव्याः । राज्ञोऽरिदेशे रिपवस्तृ- णाम्बुमार्गान्नधूमश्वसनान् विषेण । संदूषयन्त्यभिरति- प्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेच्च । दुष्टं जलं पिच्छि- लमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च । मण्डूकम- त्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति । मज्जन्ति ये चात्र नराश्वनागास्तेच्छर्द्दिमोहज्वरदाहशो- फान् । गच्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोध- यितुं यतेत” ।
📄 मूल मुद्रित पृष्ठ (3012-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।