जटामांसी, स्त्री, (जटां जटाकृतिं मन्यते इति । मन + “मनेर्दीर्घश्च ।” उणां । ३ । ६४ । इति सो दीर्घश्च ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । [] नलदम् २ वह्निनी २ पेषी ४ मांसी ५ कृष्णजटा ६ जटी ७ किरातिनी ८ जटिला ९ लोमशा १० तपस्विनी ११ । इति रत्नमाला ॥ भूत- जटा १२ । इति भावप्रकाशः ॥ पेशी १३ क्रव्यादि १४ पिशिता १५ पिशी १६ पेशिनी १७ जटा १८ हिंस्रा १९ मांसिनी २० जटाला २१ नलदा २२ मेषी २३ तामसी २४ चक्र- वर्त्तिनी २५ माता २६ अमृतजटा २७ जननी २८ जटावती २९ मृगभक्ष्या ३० जडामांसी ३१ मिंसी ३२ मिसिः ३३ मिसी ३४ मिषिका- ३५ मिषिः ३६ । इति शब्दरत्नावली ॥ अस्या गुणाः । सुरभित्वम् । कषायत्वम् । कटुत्वम् । शीतलत्वम् । कफभूतदाहपित्तनाशित्वम् । कान्ति- मोदकारित्वञ्च । इति राजनिर्घण्टः ॥ तिक्तत्वम् । मेध्यत्वम् । बलप्रदत्वम् । स्वादुत्वम् । त्रिदोषास्र- वीसर्पकुष्ठनाशित्वञ्च । इति भावप्रकाशः ॥ अनु- लेपनेन ज्वररूक्षतानाशित्वम् । इति राज- वल्लभः ॥
📄 मूल मुद्रित पृष्ठ (2-503-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।