🕉️ 21 November 2026, Saturday · 04:21:45 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

जनकतनया
janakatanayā
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
जनक—तनया f. ‘Janaka's daughter’, Sītā, Megh. 1.
📄 मूल मुद्रित पृष्ठ (410,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जनकतनया स्त्री जनकस्य तनयेव तत्पाल्यत्वात् । रामकलत्रे जनकयज्ञे वेद्यां हलाकर्षणजातायां सीतायां सा हि सत्ययुगे वृहस्पतिसुतकुशध्वजकन्या वेदवती नामासीत् त्रेतायां सीताजातत्वात् सीतानामा बभूव रामा० उत्त० १७ अ० तत्कथा यथा । “कुशध्वजो नाम पिता ब्रह्मर्षिरमितप्रभः । वृह- स्पतिसुतः श्रीमान् बुद्ध्या तुल्यो वृहस्पतेः । तस्याहं कुर्वती नित्यं वेदाभ्यासं महात्मनः । सम्भूता वाङ्- मयी कन्या नाम्ना वेदवती स्मृता । ततो देवाः स गन्धर्वायक्षराक्षसपन्नगाः । ते चापि गत्वा पितरं वरणं रोचयन्ति मे । न च मां स पिता तेभ्यो दत्त- वान् राक्षसेश्वर! । कारणं तद्वदिष्यामि निशामय महा- भुज! । पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता । दातु- मिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् । तेन रात्रौ शयानो मे पिता पापेन हिंसितः । ततो मे जननी दीना तच्छ- रीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्य- वाहनम् । ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे । इति प्रतिज्ञा- मारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव! । नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरी- पसया । विज्ञातस्त्वं हि मे राजन्! गच्छ पौलस्त्य- नन्दन! । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।” ततस्तां कामयमानेन रावणेन सा धर्षिता तस्मै शापं दत्त्वा ममार तत्कथा “एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । ततो वेदवती क्रुद्धा केशान् हस्तेन साऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदाऽकरोत् । सा ज्वलन्तीव रोषेण दह- न्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा । धर्षितायास्त्वयाऽनार्य! न मे जीवितमिष्यते । रक्षस्तस्मात् प्रवेक्ष्यामि पश्यतस्ते हुताशनम् । यस्मात्तु [] धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव बधार्थं हि समुत्पत्स्याम्यहं पुनः । न हि शक्यः स्त्रिया हन्तुं पुरुषः पापनिश्चय! । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् । यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात् त्वयोनिजा साध्वी भवेयं धर्मिणः सुता । एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः । सैषा जनकरा- जस्य प्रसूता तनया प्रभो! । तव भार्या महाबाहो! विष्णुस्त्वं हि सनातनः । पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् । एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हल- मुखोत्कृष्टवेद्यामग्निशिखोपमा । एषा वेदवती नाम पूर्वमासीत् कृते युगे । त्रेतायुगमनुप्राप्य बधार्थं तस्य रक्षसः । उत्पन्ना मैथिलकुले जनकस्य महा- त्मनः” । कालिकापु० ३७ अ० तस्याः पृथिव्या उत्पत्ति- रुक्ता । कल्पभेदादविरोधः । जनकात्मजाजनकतनया- दयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (3019-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
जनकतनया, स्त्री, (जनकस्य विदेहनृपतेस्तनया ।) सीता । इति रामायणम् ॥ (यथा, भेघदूते । १ । “यक्षश्चत्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु ॥”)
📄 मूल मुद्रित पृष्ठ (2-505-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें