जनस्थानं, क्ली, (जनस्य स्थानं भूभागः ।) दण्ड- कारण्यम् । इति जटाधरः ॥ दण्डकारण्य- समीपस्थानविशेषः । यथा । इक्ष्वाकुराजपुत्त्रो दण्डः शुक्राचार्य्यकन्यामरजां बलाद्गृहीत्वा मैथुनं कृतवान् स मुनिस्तत् श्रुत्वा राजानं [] शशाप । यथा, -- “सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्म्मसमाचारो वधं प्राप्स्यति दुर्म्मतिः ॥ सर्व्वसत्त्वानि यानीह जङ्गमानि स्थिराणि च । सर्व्वेषां पांशुवर्षेण क्षयः क्षिप्रं भविष्यति ॥ दण्डस्य विषयो यावत् तावत् सवनमाश्रमम् । पांशुभूतमिवाकस्मात् सप्तरात्राद्भविष्यति ॥ इत्युक्त्रा क्रोधसन्तप्तस्तदाश्रमनिवासिनम् । जनं जनपदस्यान्ते स्थीयतामित्यवोचत ॥ सप्ताहाद्भस्मसाद्भूतः स चापि ब्रह्मतेजसा । तस्य दण्डस्य विषयो विन्ध्यशैलस्य सानुषु ॥ तदाप्रभृति काकुत्स्थ ! दण्डकारण्यमुच्यते । तपस्विनः स्थिता यत्र तज्जनस्थानमुच्यते ॥” इति रामायणम् ॥ (अत्र रावणस्य खरदूषणप्रभृतीनि सैन्या- न्यासन् । यथा, रामायणे । १ । १ । ४६ । “तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पनखा राक्षसी कामरूपिणी ॥” “जनस्थानं नाम दण्डकारण्ये रावणबलनिवेश- स्थानम् ।” इति तट्टीकायां रामानुजः ॥)
📄 मूल मुद्रित पृष्ठ (2-507-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।