जरत्कारुः, पुं, मुनिविशेषः । तत्पर्य्यायः । याया- वरः २ । इति त्रिकाण्डशेषः ॥ (एतान्नरुक्ति- र्यथा, महाभारते । १ । ४० । ३ -- ४ । “जरेति क्षयमाहुर्व्वै दारुणं कारुसंज्ञितम् । शरीरं कारु तस्यासीत्तत् स धीमाञ्छनैः शनैः ॥ क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन् ! वासुकेर्भगिनी तथा ॥” एतद्बिवरणं यथा, देवी भागवते । २ । १२ । ७-९ । “जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् । तेन दृष्ट्वा वने गर्त्ते लम्बमानाः स्वपूर्व्वजाः ॥ ततस्तमाहः कुरु पुत्त्रदारान् यथा च नः स्यात् परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ॥ स तानुवापाथ लभे सनामा- मयाचितां चातिवशानुगाञ्च । यदा गृहारम्भमहं करोमि व्रवीमि तथ्यं मम पूर्व्वजा वै ॥ इत्युक्त्वा तान् जरत्कारुर्गतस्तीर्थान् प्रति द्बिजः ॥” अथ मात्राभिशप्तो वासुकिः ब्रह्मोपदेशात् स्वभगिनीं जरत्कारुमेनमर्पयामास । तद्यथा, तत्रैव । २ । १२ । ३५ -- ४५ । “वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्व्वकम् ॥ सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्य्यातदा तां सन्त्यजाम्यहम् ॥ वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप ! ॥ एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्वत्र संस्थिता वरवर्णिनी ॥ न सम्बोधयितव्योऽहं त्वया कान्ते ! कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ धर्म्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत् प्रबोधयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ धर्म्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्म्महानिर्नराणां हि नरकाय भवेत् पुनः ॥ इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठ सुव्रत ! ॥ उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । [] त्वन्तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ वेपमानाब्रवीद्बाक्यमित्युक्त्वा मुनिना तदा । भ्रात्रा दत्त्वा यदर्थं तत् कथं स्यादमितप्रभ ! ॥ मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ॥” अस्य पुत्त्रः आस्तीकनामा मुनिप्रवरः । योऽसौ जनमेजयं गत्वा सर्पसत्रात् निवारयामास । जरत्कारुमुनेर्विशेषविवरणन्तु महाभारते आदिपर्व्वणि ४४ -- ४८ अध्यायेषु द्रष्टव्यम् ॥)
जरत्कारुः, स्त्री, मनसादेवी । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । १२ । ४७ । “मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ॥”)
📄 मूल मुद्रित पृष्ठ (2-517-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।