जलपतिः, पुं, (जलस्य पतिः ।) वरुणः । इति हेमचन्द्रः । २ । १०२ ॥ (अस्य जलपतित्वकथा यथा, काशीखण्डे । १२ । ८९ -- ९५ । “ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च । जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ॥ तत्र तप्त्वा तपो घोरं लिङ्गं संस्थाप्य शाम्भवम् । पञ्चवर्षसहस्राणि स्थितः पाषाणनिश्चलः ॥ आविरासीन्महादेवस्तुष्टस्तत्तंपसा ततः । उवाच कार्द्दमे ! ब्रूहि कं ददामि वरोत्तमम् ॥ कार्द्दमिरुवाच । यदि नाथ ! प्रसन्नोऽसि भक्तानामनुकम्पक ! । सर्व्वासामाधिपत्यं मे देह्यपां यादसामपि ॥ इति श्रुत्वा महेशानः सर्व्वचिन्तितदः प्रभुः । अभ्यषिञ्चत तं तत्र वारुणे परमे पदे ॥ रत्नानामब्धिजातानामब्धीनां सरितामपि । सरसां पल्वलानाञ्च वाप्यम्बुस्रोतसां पुनः ॥ जलाशयानां सर्व्वेषां प्रतीच्याश्चापि वै दिशः । अधीश्वरः पाशपाणिर्भव सर्व्वामरप्रियः ॥”) समुद्रः । अप्पतिरित्यमरदर्शनात् ॥
📄 मूल मुद्रित पृष्ठ (2-523-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।