🕉️ 20 November 2026, Friday · 09:51:32 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

जलायुका
jalāyukā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
जलायुका संज्ञा स्त्री॰ [सं॰] जोंक ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
जलायुका f. a leech, Suśr. i, 13, 6.
📄 मूल मुद्रित पृष्ठ (415,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जलायुका स्त्री जलमायुरस्याः कप् वृषो० । जलौकायां (जोंक) शब्दरत्ना० तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा । “अथ जलायुका वक्ष्यन्ते । जलमासामायुरिति जलायुका जलमासामोक इति जलौकसः । ता द्वादश तासां सविषाः षट्, तावत्य एव निर्विषाः । तत्र सविषाः [] कृष्णा कर्वुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति । तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा । वर्म्मि- मत्स्यावदायता छिन्नोन्नतकुक्षिः कर्वुरा । रोमशा महा- पार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रायुधवदूर्द्धराजिभिश्चित्रिता इन्द्रायुधा । ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका । गोवृषणवदधोभागे द्विधाभूताकृतिरणु- मुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरति- मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्य- कर्मादिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यमित्येताः सविषाः सचिकित्सिता व्याख्याताः । अथ निर्विषाः । कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला । किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला । यकृद्बर्णा शीथ्र- पायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी । मूषिकाकृति वर्ण्णाऽनिष्टगन्धा च मूषिका । मुद्गवर्ण्णा पुण्डरीकतुल्य- वक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्णाष्टादशा- ङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः । तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि । तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति । तत्र सविष- मत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु च सविषाः । पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्ड- रीकशैवालकोथजाता विमलेष्वम्भःसु च निर्विषार । भवति चात्र । क्षेत्रेषु विचरन्त्येताः सलिलेषु सुग- न्धिषु । न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाः सुखाः । तासां प्रग्रहणमार्द्रचर्मणान्यैर्वा प्रयोगैर्गृह्णी- यात् । अथैनां नवे महति थटे सरस्तडागोदकपङ्कमावाप्य निदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमोदकांश्च कन्दांश्चूर्ण्णीकृत्य शय्यार्थं तृण मौदकानि च पत्राणि । त्र्यहात्र्यतहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात्स- प्तरात्राच्च घटमन्यं संक्रामयेत् । भवति चात्र । स्थूल- मध्याः परिक्लिष्टाः पृथ्योषा मन्दचेष्टिताः । अग्रा हिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः । अथ जलौ कोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् । गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरक- [] मध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा ताभीरोगं ग्राहयेत् । सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपा- वृणुयाद्गृह्णत्यै क्षीरविन्दुं वा दद्याच्छस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् । यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्णतीं चार्द्रवस्त्रावच्छन्नां धारयेत्सेचयेच्च । दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्ध- मियमादत्तैति शुद्धमाददानामपनयेत् । अथ शोणित- गन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् । अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्त- मुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणह- स्ताङ्गुष्ठाङ्गुलिभ्यां शनैरनुलोममनुमार्जयेदामुखाद्वामयेत्ता- वद्यावत्सम्यग्वान्तलिङ्गानीति । सम्यग् वान्ता सलिलसर- कन्यस्ता भोक्तुकामा सती चरेत् । या सीदत
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
जलायुका, स्त्री, (जलमायुरस्याः । कप् । पृषो- दरादित्वात् सलोपः ।) जलौका । इति शब्द- रत्नावली ॥ (यथा, सुश्रुते । १ । १३ । “अथ जलायुकाः वक्ष्यन्ते । जलमासामायु- रिति जलायुकाः ॥” अस्या अन्यद्बिवरणं जलौकःशब्दे द्रष्टव्यम् ॥ यस्मिन्नियं व्यवहृता तद्यथा, -- “नस्याञ्जनाभ्यञ्जनपानधूमं तथावपीडं कवलग्रहञ्च । संशोधनञ्चोभयतः प्रयुञ्ज्या- द्रक्तं हरेच्चापि जलायुकाभिः ॥” इति सुश्रुते कल्पस्थानेऽष्टमेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-525-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें