जलोदरं, क्ली, (जलप्रधानं उदरं यस्मात् ।) जठरामयः । तस्य निदानादि यथा, -- “यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः । पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्बहानि ॥ स्नेहोपलिप्तेष्वथवापि तेषु दकोदरं पूर्व्ववदभ्युपैति । स्निग्धं महत्तत् परिवृत्तनाभि- समाततं पूर्णमिवाम्बुना च ॥ यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरन्तत् ॥ जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् । बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥” इति माधवकरः ॥ (अस्य सकारणलक्षणचिकित्सितं यथा, हारीते चिकित्सितस्थाने २७ अध्याये । आत्रेय उवाच । “विषमाशनोपवेशात् पीततोयादथापि वा । श्रमाध्वश्वासनिष्क्रान्तादतिव्यायामतोऽपि वा ॥ [] पीतन्तूदरमेवञ्च तस्माज्जातं जलोदरम् । उदरं सजलं यस्य सघोषमतिवर्द्धितम् ॥ श्वयथुः पादयोः शोथो जलोदरस्य लक्षणम् । विरेकं वमनं कुर्य्यात् पाचनानि च कारयेत् ॥ क्षारयोगश्च वटकस्तेन तदुपशाम्यति । तस्मान्नाभेर्वलीभागे वज्जयित्वाङ्गुलद्बयम् ॥ जलनाडीञ्चानुमन्य कुशपत्रेण वेष्टयेत् । एरण्डजलनालञ्च तत्र सञ्चारयेद्बुधः ॥ अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् । यदा न धरते तच्च तदा दाहः प्रशस्यते ॥ कणा कल्कं परिस्राव्य घृतं देयं चतुर्गुणम् । शुण्ठी विषा समं पाच्यं पानमालेपनं हितम् ॥ शस्त्रकर्म्म भिषक् श्रेष्ठो विज्ञातेनैव कारयेत् । दुष्करं शस्त्रकर्म्मैव न कुर्य्यत् यत्र तत्र तु ॥ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् । तस्मादवश्यकर्त्तव्यमीश्वरं साक्षिकारिणा ॥” * ॥)
📄 मूल मुद्रित पृष्ठ (2-526-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।