जाघनी स्त्री जघनस्य समीपं शौषकोऽण् ङीप् । १ ऊरौ त्रिका० जघनस्यार्द्धे जघनैकदेशे भवः अण् ङीप् । २ पुच्छ- काण्डे “अथ जाचन्या पत्नीः संयाजयन्ति जघनार्द्धं जाघनी जघनार्द्धाद्वे योषायै प्रजाः प्रजायन्ते” शत० ब्रा० ३ । ८५ । ६ । “जाघनी वालदण्डः” भा० । “बनिष्ठु जाघनि चावद्यति” कात्या० श्रौ० ६ । ७ । १० तत्र जाघनी- [] शब्दस्य मतभेदेन कर्केण नानार्थतोक्ता यथा “जाघनी जघनप्रदेशे भवा पुच्छदण्ड इत्यर्थः जाघनी पशोः पुच्छ- मिति हरिस्वामिना । जाघनी बालदण्ड इति माधवा- चार्य्याः । “जाघनी येन मशकानपनयतीति धूर्त्तस्वामिनः । जाघनी बालधिरुच्यत इति ज्ञानदीपिकाकारः । क्षुधार्त- श्चात्तुमभ्यगाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादा- दाय धर्माधर्मविचक्षणः” (मनुः) इत्यत्र श्वजाघनीम् श्व- पुच्छमिति स्मृतिचन्द्रिकाकारो व्याख्यातवान् । जाघनी पशोः पुच्छमित्यधिकरणमालायाम् तृतीयेऽध्याये । जाघनी चैकदेशत्वादित्यधिकरणे जाघनी कटी इति पितृभूतिहरि- हरौ तदयुक्तम् कटिशब्दस्य श्रोणिपर्य्यायत्वात् श्रोण्योश्च पागुक्तत्वादिति अतः पुच्छकाण्डमेव जाघनीशब्देनोच्यते इति । विश्वामित्रस्य जाघनीहरणकथा प्रसङ्गादुच्यते । “विश्वामित्रोऽथ भगवान् महर्षिरनिकेतनः । क्षुधा- परिगतो धीमान् समन्तात् पर्य्यधावत । त्यक्त्वा दारांश्च पुत्रांश्च कस्यांचित् जनसंसदि । भक्ष्याभक्ष्यसमो भूत्वा निर- ग्निरनिकेतनः” इत्युपक्रमे “स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः । चाण्डालस्य गृहे राजन्! सद्यः शस्त्र- हतस्य वै । स चिन्तयामास तदा स्तैन्यं कार्य्यमितो मया । न हीदानीमुपायो मे विद्यते प्राणधारणे । आपत्सु विहितं स्तैन्यं विशिष्टञ्च महीयसः । विप्रेण प्राणरक्षार्थं कर्त्तव्यमिति निश्चयः । हीनादादेयमादौ स्यात् समानात्तदनन्तरम् । असम्भवे वाददीत विशिष्टादपि धार्मिकात् । सोऽहमन्त्यावसानाय हराम्येनां प्रतिग्र- हात् । न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम्” । इति निश्चित्य तां हर्त्तुमुपक्रान्तस्य चण्डालेन सह संवादो यथा “विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्ययन् । क्षुधितीऽहं गतप्राणो हरिष्यामि श्वजाघनीम् । क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः । क्षुच्च मां दूषय- त्यत्र हरिष्यामि श्वजाघनीम् । अवसीदन्ति मे प्राणा- श्रुतिर्मे नश्यति क्षुधा । दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्य- विवर्ज्जितः । सोऽधर्म बुध्यमानोऽपि हरिष्यामि श्व- जाघनीम् । अटन् भैक्षं न विन्दामि यदा युष्माक- मालये । तदा बुद्धिः कृता पापे हरिष्यामि श्वजाष- नीम्” भा० शा० १४१ अ० । कथाशेषस्तत्र दृश्यः
📄 मूल मुद्रित पृष्ठ (3083-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।