🕉️ 28 November 2026, Saturday · 03:49:49 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

जातकर्मन्
jātakarman
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
जात—कर्मन् n. a birth-ceremony (consisting in touching a newly-born child's tongue thrice with ghee after appropriate prayers), ŚāṅkhGṛ.; Gṛhyās.; Mn. ii, 27 and 29; Yājñ. i, 11; MBh. &c.
(cf. RTL. pp. 353 & 357.)
📄 मूल मुद्रित पृष्ठ (417,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जातकर्म्मन् न० जाते कर्म । पुत्रजन्मनिमित्ते पितृकर्त्तव्ये पुत्रसस्कारभेदे । तच्च आश्व० गृ० १ । १५ । १ दर्शितं यथा । “कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् “प्र ते ददामि मधुनी घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मि- न्निति” । सू० । “इदं जातकर्म । कुमारग्रहणं कुमारी- निवृत्त्यर्थम । ननु कुमार्य्या अपि भवत्येव जातकर्म । कुतः । वक्ष्यति “आवृतैव कुमार्याः” इति, उच्यते । प्रवा- सादागतस्य विहितं कर्मावृता भवति न जातकर्म अनन्तरत्वात् । एवमेके अन्ये पुरनरावृतैव कुमार्या इत्येतदुभयार्थमिति वदन्ति । तेन कुमार्या अपि जातकर्म भवति । मनुनाप्युक्तम् “अमन्त्रिका तु कार्य्येयं स्त्रीणामावृदशेषतः” इति । तहि कुमारग्रहणं किमर्थम्? अधिकारार्थम् । “अष्टमे वर्षे ब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात् न कुमार्या इति । ननु ब्राह्मणमिति पुंलिङ्गनिर्देशा- देव न भविष्यति । न जातिनिर्देशे लिङ्गमविव- क्षितम् । यथा ब्राह्मणो न हन्तव्य इति ब्राह्मण्यपि [] न हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थं कुमारग्रहणमिति । जातग्रहणमप्यधिकारार्थम् । “गो- दानं षोडशे वर्षे” इति जन्मतः प्रभृतिषोडशोयथा स्यात् उपनयनप्रभृति मा भूदिति । पुरा पूर्वमित्यर्थः अन्य- ग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्त्तव्यमित्येव- मर्थम् । सर्पिर्मधुनी हिरण्येन निकाशयति । ते हिरण्य- संसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं “प्र ते ददामीति” मन्त्रेण नारा० वृ० । “कर्णयोरुपनिधाय मेधाजननं जपति । “मेधान्ते देवः सविता मेधां देवी सरस्वती । मेधान्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ” । सू० “अस्य कर्णयोः हिरण्यं निधाय मेधाजननं जपति मेधान्त इति । उपग्रहणं तस्य मुखसमीपे आत्मनोमुखं निधाय जपार्थं मेधा जननमित्यस्य मन्त्रस्याख्या सकृन्मन्त्रः । पर्यायेणोप- निधानमित्येके । अन्ये मन्त्रावृत्तिमिच्छन्ति” नारा० “गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिवन्धनैः । प्राङ्- नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते” मनुः । “नाभिवर्द्धनात् नाभिसम्बन्धात् नाडीच्छेदनात् । वैज- वापिः “जन्मनोऽनन्तरं कार्य्यं जातकर्म यथाविधि । दैवादतीतः कालश्चेत् अतीते सुतके भवेत्” । एवञ्च, “मृदुध्रुवचरक्षिप्रभेष्वेषामुदयेऽपि वा । गुरौ शुक्रेऽथ वा केन्द्रे जातकर्म्म च नाम च” इति ज्योतिःशास्त्रोक्ते र्दैवात् कालोत्कर्षे वेदितव्यम् । अनुत्कर्षेऽपि नक्षत्रादि- नियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरव- काशत्वात् ज्यो० त० ।
📄 मूल मुद्रित पृष्ठ (3091-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬