जातिभ्रंश न० पापभेदे । तत्स्वरूपप्रायश्चित्ते मनुवोक्ते प्रा० वि० व्यवस्थापिते च यथा । “तत्र मनुः “ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः । जैह्म्यञ्च मैथुनं पुंसि जातिभ्रं शकरं स्मृतम्” ।” जातिभ्रं- शकरं कर्म्म कृत्वान्यतममिच्छया । चरेत् सान्तपनं कृच्छं प्रजापत्यमनिच्छया” । रुजः कृत्या पीडाकरणम् । अध्रेयं [] लशुनादि जैह्म्यं मित्रे कृटिलत्वं पुंसि मैतुनं पुरुषे ग्राम्य धर्मकरणम् । अत्र कामतः सान्तपनं तत्र धेनुद्वयम् । अकामतः प्राजापत्यं तत्र धेनुरेका । एतच्चाभ्यासे बोद्ध- व्यम् । रुजः कृत्ये त्यत्र विशेषमाह मनुः “अवगुर्य चरेत् कृच्छमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्यो- त्पाद्य शोणितम्” । तथा याज्ञवल्क्यः “विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते- कार्य्योऽभ्यन्तरशोणिते” । अत्र दण्डशब्दः शस्त्रमपि लक्ष- यति । अतिकृच्छ्रे धेनुत्रयं कृच्छ्रातिकृच्छ्रे धेनुपञ्चकम् । यमः “ःकृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथाचरेत् । दश संख्याश्च गा दद्यादङ्गच्छेदो यदा भवेत्” । अत्र द्विजा- ङ्गच्छेदे व्रतद्वयस्य गोदानानाञ्च समुच्चयः । विशेषमाह वृहस्पतिः “काष्ठादिना ताडयित्वा त्वगभेदे कृच्छमाच- रेत् । अस्थिभेदेऽतिकृच्छ्रन्तु पराकं चाङ्गकर्त्तने” ।
📄 मूल मुद्रित पृष्ठ (3107-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।