जातीफलं, क्ली, (जातीत्याख्यं फलम् ।) सुगन्ध- फलविशेषः । जायफल इति भाषा ॥ तत्- पर्य्यायः । जातीकोषम् २ । इत्यमरः । २ । ६ । १३२ ॥ जातीकोशम् ३ जातिफलम् ४ । इति तट्टीका ॥ जातिशस्यम् ५ शालूकम् ६ मालतीफलम् ७ मज्जसारम् ८ जातिसारम् ९ पपुटम् १० सुमनःफलम् ११ फलञ्जातिः १२ फलञ्जाती १३ कोशम् १४ कोषम् १५ जातिकोषम् १६ कोष- कम् १७ । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । १६ । ३० । [] “जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥”) अस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटु- त्वम् । कण्ठामयार्त्तिवातातीसारमेहनाशि- त्वम् । वृष्यत्वम् । दीपनत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ रसे तिक्तत्वम् । तीक्ष्णत्वम् । रोचनत्वम् । ग्राहित्वम् । स्वरहितत्वम् । श्लेष्मा- निलमुखवैरस्यमलदौर्गन्ध्यकृष्णताकृमिकासवमि- श्वासशोषपीनसहृद्रुञ् नाशित्वञ्च । इति भाव- प्रकाशः ॥ तृष्णाशूलनाशित्वम् । इति राज- वल्लभः ॥
📄 मूल मुद्रित पृष्ठ (2-531-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।