जिताष्टमी, स्त्री, (जिता पुत्त्रसौभाग्यदानेन सर्व्वोत्- कर्षेण स्थिता या अष्टमी ।) गौणाश्विनकृष्णा- ष्टमी । सैव जीमूताष्टमी । यथा, “आश्विन- कृष्णाष्टम्यां जीमूतवाहनपूजा । तत्राष्टमी प्रदोषव्यापिनी ग्राह्या । भविष्योत्तरे । “इषे मास्यसिते पक्षे अष्टमी या तिथिर्भवेत् । पुत्त्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्त्रिका ॥ शालिवाहनराजस्य पुत्त्रो जीमूतवाहनः । [] तस्यां पूज्यः स नारीभिः पुत्त्रसौभाग्यलिप्सया ॥ प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः । पुस्करिणीं विघायाथ प्राङ्गणे चतुरस्रिकाम् ॥” किञ्च विष्णुघर्म्मोत्तरे । “पूर्व्वेद्युरपरेद्युर्व्वा प्रदोषे यत्र चाष्टमी । तत्र पूज्यः सदा स्त्रीभी राजा जीमूतवाहनः ॥” तथा च । यद्दिने प्रदोषव्यापिनी अष्टमी तत्रैव व्रतं उभयदिने चेत् परदिने त्रिसन्ध्यव्यापित्वात् । उभयदिने प्रदोषाव्याप्तौ उदयगामिन्यां तदुक्तं निर्णयामृतसिन्धौ । “लक्ष्मीव्रतं चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे । तत्रोदयं वै कुरुते दिनेश- स्तदा भवेज्जीवितपुत्त्रिका सा ॥” इति । अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् । “आश्विनस्यासिताष्ठम्यां याः स्त्रियाऽन्नं हि भुञ्जते । मृतवत्सा भवेयुस्ता वैधव्यञ्च भवेद्ध्रुवम् ॥” इति वचनात् । इति वाचस्पतिमिश्रकृतचमत्कारचिन्तामणिः ॥
📄 मूल मुद्रित पृष्ठ (2-535-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।