जिह्वारोगः, पुं, (जिह्वाया रोगः ।) मुखरोगा- न्तर्गतरसनाजातव्याधिः । तत्र जिह्वारोगाणां निदाननामसङ्ख्याः प्राह । “वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः । उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ॥” तत्र वातजस्य लक्षणमाह । जिह्वानिलेनस्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा । स्फुटितामनाग्विदीर्णा । प्रसुप्ता रसानभिज्ञ- तया सुप्तेव । शाकच्छदनप्रकाशा शाको मरु- भूमिजो दुमः तद्वत् कण्टकचिता ॥ * ॥ पित्तजमाह । पित्तात् सदाहैरुपचीयते च दीर्घैः सरक्तैरपिकण्टकैश्च । [] अयं रोगो लोके जलीति ख्यातः । जाडीति वङ्गभाषा ॥ * ॥ कफजमाह । कफेन गुर्व्वीं बहलाचिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः । बहला स्थूला । मांसोच्छ्रयैः मांसजकण्टकैः ॥ * ॥ अलासमाह । जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः । जिह्वां सरुक् स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ॥ प्रगाढः प्रकर्षेण गाढो दारुणः । कफरक्तमूर्त्तिः कफरक्ताभ्यां मूर्त्तिर्यस्य स कफरक्तज इत्यर्थः । जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः । भृशं पाकेन पित्तञ्च । अतस्त्रिदोषजोऽयम् । असाध्यत्व- ञ्चास्य ॥ * ॥ उपजिह्विकामाह । जिह्वाग्ररूपः श्वयथुश्च जिह्वा- मुन्नाम्य जातः कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसायुपजिह्विकेति ॥ जिह्वाग्ररूपः जिह्वाग्राकृतिः ॥” * ॥ अथ जिह्वारोगाणां चिकित्सा । “जिह्वागतविकाराणां शस्तं शोणितमोक्षणम् । गुडुचीपिप्पलीनिम्बकवलः कटुभिः सुखः ॥ ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम् । कण्टकेष्वनिलोत्थेषु तत् कार्य्यं भिषजा खलु ॥ पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते । प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ॥ कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये । पिप्पल्यादिर्म्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥ उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् । शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥ व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् । उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ॥” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-536-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।