जीर्णज्वरः, पुं, (जीर्णः पुरातनो ज्वरः ।) पुरा- तनज्वररोगः । अथ जीर्णज्वराधिकारः । तत्र जीर्णज्वरस्य सामान्यलक्षणमाह । “यो द्वादशभ्यो दिवसेभ्य ऊर्द्धं दोषत्रयस्तद्द्विगुणेभ्य ऊर्द्धम् । नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः ॥” * ॥ जीर्णज्वरस्यैव विशेषं वातवलासकमाह । “नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातवलासकी ॥” वातवलासकाख्यो ज्वरोऽस्यास्ति इति वात- वलासकी । नर ईदृग्भवेत् । शूनः शोथी । श्लेष्मभूयिष्ठो बहुलश्लेष्मकः ॥ * ॥ अथ जीर्णज्वरस्य सामान्यचिकित्सा । “जीर्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन । लङ्घनात् स भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः ॥ पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा । लङ्घयेत्तत्र तं पश्चात् पूर्व्ववत् कारयेत् क्रियाम् ॥” तथा पूर्व्ववत् ॥ * ॥ “निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् । जीर्णज्वरारोचककासशूल- श्वासाग्निमान्द्यार्द्दितपीनसेषु ॥ हन्त्यूर्द्ध्वजानयं प्रायः सायं तेनोपयुज्यते ॥” इति त्रिकण्टकक्वाथः ॥ * ॥ “पिप्पलीचूर्णसंयुक्तक्वाथश्छिन्नोद्भवोद्भवः । जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथवा ॥ [] अमृतायाः कषायन्तु शीतलीकृतमीरितम् । मधुपादयुतं पीतं जीर्णज्वरहरं परम् ॥ पिप्पलीमधुसंमिश्रं गुडूचीस्वरसं पिबेत् । जीर्णज्वरकफप्लीहकासारोचकनाशनम् ॥ जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली । कासाजीर्णारुचिश्वासहृत्पाण्डुज्वररोगनुत् ॥ द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः । पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी ॥ श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा । आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा ॥ चूर्णितोऽयं गणो ज्ञेयः सर्व्वज्वरहरः परः । भेदी रुचिकरः श्लेष्महर्त्ता दीपनपाचनः ॥” इति आमलक्यादिचूर्णम् ॥ * ॥ “द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् । नागरं कटुका पाठा भूनिम्बः सदुरालभः ॥ उशीरं धान्यकं पद्मं बालकं कण्टकारिका । पुष्करं पिचुमर्द्दञ्च दशाष्टाङ्गमिदं स्मृतम् ॥ जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम् ॥” इति द्राक्षाद्यष्टादशाङ्गक्वाथः ॥ * ॥ “त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याथवा कणाः । गव्यक्षीरेण संपिष्टा पिबेद्दश दिनानि हि ॥ तथैव न्यूनयेदेता एवं विंशतिवासरान् । पिबतां ज्वरशान्तिः स्यात् पाण्डरोगश्च शाम्यति ॥ कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति । त्रयादिवृद्धिर्यथाकफवृद्धिः । दुग्धवृद्धिर्यथाग्निवृद्धिः । इति वर्द्धमानपिप्पली ॥ * ॥ “वातश्लेष्मज्वरोक्ता स्यात् क्रिया वातवलासके । जीर्णे ज्वरे कफे क्षीणे दाहतृष्णासमन्विते ॥ पयः पीयूषसदृशं तन्नवे तु विषोपमम् । चन्दनाद्यं हितं तैलं शीर्षाधिकारकीर्त्तितम् ॥ तथा नारायणन्तैलं जीर्णज्वरहरं परम् ॥” इति जीर्णज्वराधिकारः । इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-538-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।