झषोदरी स्त्री झषस्योदरं जन्मस्थानतयास्त्यस्था अच् गौरा० ङीष् । मत्स्यगन्धायां व्यासमातरि सत्यवत्याम् त्रि- काण्डशेषः । सा च उपरिचरनृपस्य शुक्रेण ब्रह्मणः शापेन मत्स्ययोनिमाप्तायामद्रिकायाष्सरोभेदस्य गर्भा- ज्जाता तत्कथा भा० आ० ६३ अ० । “मत्प्रियार्थमिदं सौम्य! शुक्रं मष गृहं नय । गिरि- कायाः प्रयच्छाशु तस्या ह्यार्त्तवमद्य वै” । “गृहीत्वा तु [] तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थायं प्रदद्राव विहङ्कमः । तमपश्यदथायान्तं श्येनं श्येनस्त- थापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया । तुण्ड- थुद्धमथाकाशे तावुभौ संप्रचक्रतुः । युध्यतोरपतद्रेतस्त च्चापि यमुनाम्भसि । तत्राद्रिकेति विख्याता ब्रह्मशापा- द्वराप्सराः । मीनभावमनुप्राप्ता बभूब यमुनाचरी । श्येनपादपरिभ्वष्टं तद्वीर्य्यमथ वासवम् । जग्राह तर- सोत्पत्य साद्रिका मत्स्यरूपिणी । कदाचिदथ मत्सीं तां बबन्धुर्म्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा भरतसत्तम! । उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसञ्च मा- नुषौ । आश्चर्य्यभूतं तज्ज्ञात्वा राज्ञेऽथ प्रत्यवेदयन् । काये मत्स्या इमौ राजन्! संभूतौ मानुषाविति । तयोः पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम राजासीद्धार्म्मिकः सत्यसङ्गरः । साष्सरा मुक्तशापा च क्षणेन समपद्यत । पुरोक्ता सा भगवता तिर्यग्योनिगता शुभे! । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि । ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य मत्स्यरूपं तत् दिव्यरूपमवाप्य च । सिद्धर्षिचारणपथं जगामाथ वराप्सराः । या कन्या दुहिता तस्या मत्- स्या मत्स्यसगन्धिनी । राज्ञा दत्ता च दाशाय कन्ये- यन्ते भवत्विति । रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः । सा तु सत्यवतो नाम मत्स्यधात्यभिसंश्रयात् । आसीत् सा मत्स्यगन्धिव किञ्चित्कालं शुचिस्मिता” ।
📄 मूल मुद्रित पृष्ठ (3185-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।