ञ, ञकारः । स व्यञ्जनदशमवर्णः चवर्गपञ्चम- वर्णश्च । (असौ तु अर्द्धमात्राकालेनोच्चार्य्यः ।) अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ * ॥ अस्योत्पत्तिर्यथा, -- “विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ॥” इति प्रपञ्चसारः ॥ * ॥ (पाणिनिमते तु अस्योत्पत्तिस्थानं नासिका- न्विततालु । अस्योच्चारणे जिह्वामध्येन तालु- मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । संवारनाद- घोषा अल्पप्राणश्च वाह्यप्रयत्नाः । मातृकान्यासे- ऽस्य वामहस्ताङ्गुल्यग्रे न्यासक्रिया स्यात् । वङ्गीयवर्णमालायां) अस्य लेखनप्रकारो यथा, “कुण्डलीरूपमास्थाय दक्षतो वामतस्ततः । ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः ॥ तिष्ठन्ति तासु नित्यासु सूर्य्येन्द्रवरुणाः सदा । कुण्डलीद्बयरूपा तु या मात्रा मध्यतः स्थिता ॥ महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥ * ॥ चतुर्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम् । नानालङ्कारसंयुक्तां जटामुकुटराजिताम् ॥ [] ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ! । रक्तविद्युल्लताकारं या स्वयं परकुण्डली ॥ पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ॥” तस्य २२ द्वाविंशतिर्नामानि यथा, -- “ञकारो बोधनी विश्वा कुण्डली मखदो वियत् । कौमारी नागविज्ञानी सव्याङ्गुलनखो वकः ॥ शर्व्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः । धर्मैकपादः सुमुखो विरजा चन्दनेश्वरी ॥ गायनः पुष्पधन्वा च रागात्मा च वराक्षिणी ॥” इति नानातन्त्रशास्त्रम् ॥
ञः, पुं, गायनः । घर्घध्वनिः । इत्येकाक्षर- कोषः ॥ बलीवर्द्दः । शुक्रः । वाममतिः । इति मेदिनी । ञे, १ ॥ (गणपाठे घातोरुभय- पदत्वविज्ञापकोऽनुबन्धविशेषः । इति वोपदेवः ॥)
📄 मूल मुद्रित पृष्ठ (2-571-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।