ठ, ठकारः । स व्यञ्जनद्बादशवर्णः टवर्गद्बितीय- वर्णश्च । (अर्द्धमात्राकालेनोच्चार्य्योऽयं वर्णः ।) अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (अस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्पर्शः आभ्यन्तरप्रयत्नः । विवारश्वासघोषा महा- प्राणश्च वाह्यप्रयत्नाः । वङ्ग्यवर्णमालायाम्) तस्य लेखनप्रकारो यथा, -- “वार्त्ताकुवर्त्तुलाकारो रेखाधिष्ठितदेवताः । तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्य्याग्नयः प्रिये ! ॥ मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! । पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम् ॥ सुन्दरीं षोडशभुजां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति तन्त्रोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी । पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥ [] पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ॥” तस्य ३१ एकत्रिंशन्नामानि यथा, -- “ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली क्षया । वनजो नन्दनो जिह्वा सुनञ्जो घूर्णकः सुधा ॥ वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावश्च देवभक्षो बृहद्ध्वनिः ॥ एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः । वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः शशी ॥” इति नानातन्त्रशास्त्रम् ॥
ठः, पुं, शिवः । महाध्वनिः । चन्द्रमण्डलः । इत्येकाक्षरकोषः ॥ मण्डलः । शून्यम् । लोक- गोचरः । इति मेदिनी । ठे, १ ॥
📄 मूल मुद्रित पृष्ठ (2-572-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।