णद अव्यक्तशब्दे भ्वा० पर० अक० सेट् । नदति प्रणदति अनादीत् अनदीत् । ननाद नेदतुः नेदतुः । नादः नदन् नदितुम् । सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्य णत्वम् । प्रणिनदति परिणिनदति । “वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं० १८३ अ० । “नदति मही गम्भीरम्” वृ० स० ५४ अ० । “शब्दं घोरं नदन्ति” भा० व० २६७ अ० “शिवाश्चैवाशिवान्नादान्नदन्ते” हरिवं० १९३ अ० । आर्षस्तङ् । णिचि नादयति “नदय- [] न्नेति पृथिवीमुत द्याम्” ऋ०९ । ९७ । १३ । “आ सानु- शुष्मैर्नदयन् पृथिव्याः” ऋ० ७ । ७ । २ । छान्दसो ह्रस्वः । लोके तु न ह्रस्वः । “नादयन्रथघोषेण सर्वाः सविदिशो दिशः” भा० व० २५३३ श्लो० । अन्तर्भूतण्यर्थे तु अस्य सकर्मकता “नृत्याबसाने नटरजराजो ननाद ढक्कां नव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम् । अनु + नादेनानुकरणे सक० । “तथा च तेषां रुदतां महा- त्मनां दिशं च खञ्चानुननाद निस्वनः” रामा० २ । १११ अ० । अभि + आभिमुख्येन शब्दकरणे । “पुत्रेति तन्मयतया तर- वोऽभिनेदुः” भाग० १ । २ । २ । उद् + उच्चैःशब्दकरणे । “कालमेघैवोन्नदन्” भा० द्रो० ६८१४ प्रति + प्रतिशब्देन अनुकरणे सक० । “वयं प्रति नदन्तस्तान्” भा० भी० ४५१८ ।
णद भाषे चु० उभ० सक़् सेट् । नादयति ते प्रणादयति अनीनदत्--त । ननाद नेदतुः ।
📄 मूल मुद्रित पृष्ठ (3194-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।