णह बन्धने दिवा० उभ० सक० अनिट् । नह्यति--ते प्रणह्य- ति--ते । अनात्सीत् अनद्ध ननाह नेहे । नद्ध्वा नद्धः नद्ध्री । “यथा युगं वरत्रया नह्यन्ति” ऋ० १० । ६० । ८ “खर्जूरी- स्कन्धनद्धानाम्” रघुः । “अमृतोत्पादने नद्धो भुज- गेनेव मन्दरः” रामा० सुन्द० २४ अ० । अपि + धारणे वा आदेरल्लोपः । पिनह्यति अपिनह्यति । “वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः । “आमुच्य कम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले” भा० वि० ११ अ० । विशेषेण बन्धने निबन्धने च । “पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा० व० ६८ अ० “बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा० आ० १८५ अ० । अव + समन्ताद्बन्धने । “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरी- षयोः” मनुः । आ + सम्यग्बन्धने “वरत्रायां दार्व्यानह्य मानः” ऋ० १० । १०२ । ८ “आनद्धावरणैः कामैः” भा० भी० ११९ अ० । “आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु० परि + आ + परितो बन्धे सक० । “सोमपर्य्याणहनेन पर्य्या- णह्यति” शत० व्रा० ३ । ३ । ४ । ६ उद् + उत्तोल्य बन्धने । “अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यति” “सास्रावमुन्नह्यति मांसपिण्डम्” सुश्रु० अतिवन्धने च । “ते नेह शक्याः सहसा विजेतुं वीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा० भी० ८१ अ० । सम् + उद् + समुग्बन्धने । “बल्मीकवत् सभन्नद्धमन्तः कुर्बन्ति विद्रधिम्” सुश्रु० । पण्डित्याभिमाने गर्वे च “अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः । तत्र पाण्डित्यमाने “अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा० उ० ३२ अ० । गर्वे “अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा । विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा० उ० ३२ अ० । समुद्नवे च “परोक्षेण समुन्नद्धप्रणयोतकण्ठ्य कातरः” भाग० १ । १५ । ४ उप + उपरिबन्धने । “विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणं चाप्युपनाहयेत्तु” सुश्रु० । उपानद् क्विपि पूर्वस्वरदीर्घः । नि + निवन्धने । “इषधिः पृष्ठे निनद्धः” ऋ० ६ । ७५ । ५ परि + परितो बन्धने । “न तां बध्री परिणहेच्छतचर्मा भहातनुम्” भा० आ० २९ अ० । विस्तारे “परिणाहो [] विशाकता” अमरः । “कपाटवक्षाः परिनद्धकन्धरः” रघुः । क्विपि घञि परे वा दीर्थः परी(रि) णाहः । सम् + सम्यग्बन्धने कवचादिधाऋअणे च । “श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेण वलगुना” भाग० ८ । १२ । १६ । “कवचेन महार्हेण सम- नह्यद्वृहन्नलाम्” भा० वि० ३७ अ० ।
📄 मूल मुद्रित पृष्ठ (3196-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।