णुद प्रेरणे तुदा० उभ० सक० अनिट् । नुदति--ते प्रणुदति अनौस्मीत् अनुत्त । नुनोद नुनुदे नोत्ता नोत्स्यति ते नोदनम् नोत्तुम् । नुन्नः नुत्तः । “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्” मेघ० । खण्डने अपसारणे च नुनुदे तनुकण्डु पण्डितः” नैष० । अद- स्त्वया नुन्नमनुचमं तमः” माघः । “प्रणुद्यान्मे वृजिनं देवदेवः” हरिवं १३१ अ० । “विधिना संप्रणु- दितः” भा० व० १ अ० । अनुदात्तेत्त्वेऽपि इट् आर्षः । नोदं करोतीति णिच् । नोदयति नोदितः नोद्यमानः । “ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा० व० ७१ अ० । “अङ्कुशाङ्गुष्ठनोदिताः” भो० १९ अ० । धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुन- स्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मै- पदार्थः” सि० कौ० । अप + अपसारने “जरां रोगमपनुद्य शरिरात्” साङ्ख्या० गृ० “आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्” भा० आश्व० ६२ अ० । “अलक्ष्मीं व्यपनोत्स्यथ” भा० व० ११५ अ० । “अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा० द्रो० १९० अ० । परा + अपसारणे “तन्न पराणुद विभो! कश्मलं मानसं महत्” भाग० ३ । ७ । ७ श्लो० । प्र + प्रकर्षेण नोदने चालने च । “स शत्रुसेनां तरसा प्रणुद्य” भा० वि० ६४ अ० । अपसारणे “ततोऽन्धकारं प्रणुदन्नुद- तिष्ठत चन्द्रमाः” भा० व० ३३ अ० । वि + विशेषणे नोदने । “चोदयामास तानश्वात् विनुन्नाद्भीष्म- सायकैः” भा० भी० ४८४६ श्लो० । णिजन्तस्य दुःखा- द्यपसारणे “लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघः मल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह । “पुष्पं फलं चार्त्तवमाहरस्व । विनोदयिष्यन्ति नवाभि- षङ्गादु” रघुः । “कथं वा देवी सरुजत्वात् विनोद्यते” मालविकाग्नि० । “लोलं विनोदय मनः सुमनोलतासु” । सा० द० ।
📄 मूल मुद्रित पृष्ठ (3199,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।