त, तकारः । स व्यञ्जनषोडशवर्णः । तवर्गप्रथम- वर्णश्च । (अर्धमात्राकालेनोच्चार्य्यः ।) अस्यो- च्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (अस्यो- च्चारणे दन्तमूलेन जिह्वाग्रस्य स्पर्शः आभ्य- न्तरप्रयत्नः । विवारश्वासघोषाः बाह्यप्रयत्नाः । मातृकान्यासेऽस्य वामस्फिचि न्यासक्रिया स्यात् । वङ्गीयवर्णमालायां) तस्य लेखनप्रकारो यथा, -- [] “आदौ बिन्दुस्ततो मध्ये कुण्डलीत्वमवाप्य सा । दक्षाद्बामगता नित्या ब्रह्मविष्ण्वीशरूपिणी ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! । चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम् ॥ सदा षोडशवर्षीयां रक्ताम्बरधरां पराम् । नानालङ्कारभूषां वा सर्व्वसिद्धिप्रदायिनीम् ॥ एवं ध्यात्वा तकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “तकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली । पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ॥ त्रिशक्तिसहितं वर्णं आत्मादितत्त्वसंयुतम् । त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् ॥” तस्य ३२ द्बात्रिंशन्नामानि यथा, -- “तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा । वामस्फिक्वामकट्यौ च कामिनी मध्यकर्णकः ॥ आषाढी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः । रत्नकश्च श्याममुखी वाराही मकरोऽरुणा ॥ सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः । गन्धो विश्वामरुच्छत्रश्चानुराधा च सौरकः ॥ जयन्तिपुलको भ्रान्तिरनङ्गमदनातुरा ॥” इति नानातन्त्रशास्त्रम् ॥
तं, क्ली स्त्री, (त + भावे डः ।) तरणम् । (तरति भवसागरमनेनेति । तॄ + करणे डः ।) पुण्यम् । इति मेदिनी । ते, १ ॥
तः, पुं, (तर्द्दति तम्बति वा हिनस्ति द्रव्यादिहर- णेन जनानिति । तर्द्द तम्ब वा + डः ।) चौरः । अमृतम् । पुच्छम् । क्रोडः । म्लेच्छः । इति मेदिनी । ते, १ ॥ गर्भः । शठः । इति शब्दरत्ना- वली ॥ रत्नम् । सुगतः । योधः । गौरविवर्ज्जित- पुच्छम् । क्रोष्टुपुच्छम् । इत्येकाक्षरकोषः ॥
📄 मूल मुद्रित पृष्ठ (2-577-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।