तन्त्रता स्त्री तन्त्रस्य भावः तल् । अनेकोद्देशेन सकृत्प्रवृत्तौ यथा तर्पणपूजनाद्यनेककर्मोद्देशेन सकृत्स्नाने कृते सर्व- कर्माङ्गस्नानसिद्धिः । तद्विषयोदाहरणं प्रा० त० उक्तं यथा “आग्नेयाष्टकपालैन्द्रदध्यैन्द्रपयोयागानां त्रयाणा- माग्नेयाष्टकपालोपांशुयागाग्नीषोमीयैकादशकपालया- गानां त्रयाणां सकृत् सकृदनुष्ठितेन प्रयाजाद्यङ्गे- नोपकारः सिद्ध्यति तथा मानाब्रह्मबधसत्त्वे सर्वो- द्देशेन सकृत् प्रायश्चित्ते कृते सर्वब्रह्मवधजन्यपापनाशः । तन्त्रतायाहेतुश्च अदृष्टार्थैकजातीयकर्मणः कालदेश कर्त्रादीनां प्रयोगानुबन्धिवैधहेतुभूतानामभेदे उद्देश्य विशेषाग्रहः” इति । एवञ्च “स्नातोऽधिकारी भवति दैवे पैत्रे च कर्मणि । पवित्राणां तथा जाप्ये दाने च विधिदर्शिते” इति विष्णूक्तम् “अस्नात्वा नाचरेत् कर्म- जपहोमादि किञ्चनेति” दक्षोक्तञ्च, क्रियाङ्गस्नानं कर्तृसंस्कारद्वारैव तद्दिनकर्त्तव्याशेषकर्मार्थमेकमेव न तु प्रतिकर्म कर्त्तंव्यम्” इति रघुनन्दनः अधिकं तन्त्रशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (3227,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।