तगरं, नदीवृक्षः । पिण्डतगर इति कोङ्कणे प्रसिद्धः । तगरमूल इति ख्यातञ्च । तत्- पर्य्यायः । कालानुशारिवा २ वक्रम् ३ कुटि- लम् ४ शठम् ५ महोरगम् ६ नतम् ७ जिह्मम् ८ दीपनम् ९ तगरपादिकम् १० । इति रत्न- माला ॥ विनम्रम् ११ कुञ्चितम् १२ षण्ढम् १३ नहुषाख्यम् १४ दण्डहस्तम् १५ वर्हणम् १६ पिण्डीतगरकम् १७ पार्थिवम् १८ राजहर्ष- णम् १९ कालानुसारकम् २० क्षत्त्रम् २१ दीनम् २२ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । दृष्टिदोषविषार्त्तिभूतोन्मादभयनाशित्वम् । पथ्यत्वञ्च ॥ आहुल्यवृक्षः । इति राजनिर्घण्टः ॥ गन्धद्रव्यविशेषः । तस्य पर्य्यायगुणाः । “कालानुसार्य्यं तगरं कठिनं लघु संनतम् । अपरं पिण्डतगरं दण्डहस्ति च वर्हणम् ॥ तगरद्बयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारमृर्द्धाक्षिरोगदोषत्रयापहम् ॥” इति भावप्रकाशः ॥
तगरः, पुं, (तं क्रोडभागं गिरतीति । गॄ + अच् ।) पुष्पवृक्षविशेषः । टगर इति भाषा । तत्- पर्य्यायः । सितपुष्पः २ । कालपर्णः ३ कटु- च्छदः ४ । इति शब्दरत्नावली ॥ (यथा, महा- भारते । १३ । १०४ । ८५ । “प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च । पृथगेवानुलिम्पेत केशरेण च बुद्धिमान् ॥”) मदनवृक्षः । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-578-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।