तदात्मन् पु० स आत्मा यस्य । १ तत्स्वरूपे २ तदभिन्ने च । तस्य भावः ष्यञ् । तादात्म्य अभेदे “क्रमिकं यन्नाम- युगमेकार्थेऽन्यार्थवोधकम् । तादात्म्येन भवेदेषः समासः कर्मधारयः” शब्द० प्र० । “अभेदस्तादात्म्य तच्च स्ववृत्त्यसाधारणो धर्मः । असाघारणत्वं चैकमात्रवृत्तित्वम् । एकमात्रवृत्तित्वञ्च स्वमामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेद- विशिष्टं यत्तदन्यत्वम् । इत्येकमात्रवृत्तिधर्म एव विशेषण- विभक्त्यर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्य्यादया [] आघारादीनां मुख्यकालीनत्वं स्यात् एवमनुयाजमात्र- स्योत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसंवाकादीनां मुख्यकाली- धर्मत्वादिना सामान्यप्रत्यासत्त्या सुज्ञेयत्वमेव । अभेदस्य संसर्गतामतेप्येतादृशानुगतभेदस्यैव तथात्वमुचितम् । तत्त- द्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशेष्य तथात्वे घटो न नील इत्यादि वाक्यजन्यबोधे प्रतियोग्यभावान्वयी- तुल्ययोगक्षेमावितिन्यायेन तादृशानुगतसम्बन्धावच्छिन्न- प्रतियोगिताकाभावा एव भासेरन् नीलादिवृत्तिप्रति- योगिताकैकैकाभावः । तथा सति तादृशैकैकावभाव तात्प- पर्य्येण प्रयुक्तस्य नीलोपि न नील इति वाक्यस्य प्रामाण्य स्यात्” व्युत्प० गदा० “सत्यैक्ये मिथोभेदस्ता- दात्मम् तच्च तत्सत्तातिरिक्तसत्ताकत्वाभावः” वेदा० प० “तदात्मनोपि निषिध्यमानत्वे तन्निषेधात्मके तदात्मनि जगत्प्रवेशात् । न हि घटः पटात्मेत्यनेन घटस्वरू- पादन्यस्तदात्मा विहितः स्यात् यदि तु तादात्म्यं नामा- भेदाख्यो धर्मः कश्चिदिष्यते स घटपटद्यधिकरणतया निषिध्यते तदा संसर्गाभाव एव स्यात् । तस्मान्निर्विशेषण तदात्मान्तर्भूतं जगदिति कोट्यन्तराभाव इति” । श्रीह- र्षखण्डने अन्योन्याभावखण्डने उक्तम् ।
📄 मूल मुद्रित पृष्ठ (3216-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।