तनूनपात्(द्)[फ्णीङ्थ्छ्ःआङ्घै१] पु० तनूं न पातयति पत--णिच्--क्विप् नभ्राङित्यादिना नञोन नलोपः । तनूनं पाति रक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपं घृतं तदत्ति अद--क्विप् वा । अग्न्रौ, जठरस्थित्या भुक्तान्नादिपाचनादस्य देहापातकत्वम् । शतृपक्षे तनून- पान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः । २ घृते न० ६ त० । ३ प्रजापतिपौत्रे । “नराशंसः प्रतिशूरोमि- मानस्तनूनपात् प्रतियज्ञय्य धाम” यजु० २० । ३७ तनून- पात् तनोति विस्तारयति सृष्टिं तनूः प्रजापति र्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति [] तनूनपात् अग्निः यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयस- आज्यमिति घृतं तनूनपाद्वा” वेददी० निरुक्ते अस्य निरुक्तिर्दर्शिता यथा “तनूनपादाज्यं भवति नपादित्यन- नन्तरायाः प्रजाया नामघेयं भवति गौरत्र तनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयस आज्यं जायते । अग्निरिति शाकपूणिरापोऽत्र तन्व उच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जा- यन्त ओषधिवनस्पतिभ्य एष जायते । तस्यैषा भवति । “तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदया सुजिह्व” निरु० ८ । ६ । अग्न्युद्देश्यके ४ प्रयाजभेदे च । तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानां पयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इति भेदः यथोक्तं आश्व० श्रौ० १ । ५ । ६ “प्रयाजैश्चरन्ति” “पञ्चैते भवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायण- स्यापि पञ्चैव भवन्ति न षडेत्येवमर्थम् । एत इति वचनम् अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्च भवन्ति नापठितेन सहेत्येवमर्थम्” नारा० । ये यजामहे इत्युपक्रमे “समिधः अग्न आज्यस्य व्यन्तु ३ वौ३ष- डिति वषट्कारः १५ सू० । “इति प्रथमः” १६ सू० । “त्ययं प्रथमः प्रयाजः” नारा० “तनूनपादग्न आज्यस्येति वेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः” । २१ सू० । “नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्” २२ । सू० “वसिष्ठादीनामयं द्वितीयः” नारा० “इडो अग्न आ- ज्यस्य व्यन्त्विति तृतीयः” । २३ सू० । “सर्वेषामिति शेषः” नारा० “वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमे स्वाहाऽमुं स्वाहासुमिति” २४ सू० इत्यादि । वसिष्ठादिभि- न्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वा- हाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम् । वसि- ष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः । अतएव श्रुतौ “समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताः वसिष्ठादिभिन्नषरतया व्यवस्याप्याः । “बभार वाष्पैर्द्विगुणी कृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः । “तनूं न पातयति जाठररूपेण धारयतीति” मल्लि० । [1] Correction submitted by SergeA on 20170901. Reference: https://github.com/sanskrit-lexicon/alternateheadwords/issues/23. note: * OK.
📄 मूल मुद्रित पृष्ठ (3221-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।