तपती स्त्री । सूर्य्यस्य कन्यायां संवरणनृपस्य भार्य्यायां कुरुरा- जमातरि । “ततः संवरणात् सौरी तपती सुषुवे कुरुम्” मा० आ० ९४ अ० । “संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे तस्यामस्य जज्ञे कुरुः” ९५ अ० । १७१ अ० । तत्कथा “अर्जुन उवाच तापत्य इति यद्वाक्यमुक्तवा- [] नसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनि- श्चयम् । तपतोनाम का चैषा तापत्या यत्कृते वयम् । कौन्तेया हि वयं साधो! तत्त्वमिच्छामि वेदितुम् । वैशम्पायन उवाच । एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धन- ञ्जयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् । गन्धर्व उवाच । हन्त ते कथयिष्यामि कथामेतां मनो- रमाम् । यथावदखिलां पार्थ! सर्वबुद्धिमतांवर! । उक्तवानस्मि येन त्वां तापत्या इति यद्वचः” । “य एष दिवि घिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य तपती नाम बभूव सदृशी सुता । विवस्वतो वैदेवस्य सावित्र्य- वरजा विभोः । विश्रुता त्रिषु लोकेषु तपती तपसा युता । न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा न च गन्धर्वी तथा रूपेण काचन । सुविभक्ताऽन- वद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च सुवेशा चैव भामिनी । न तस्याः सदृशं किञ्चित् त्रिषु लोकेषु भारत! । भर्त्तारं सविता मेने रूपशीलगुण- श्रुतैः । सम्प्राप्तयौवनां पश्यन् देयां दुहितरन्तु ताम् । नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् । अथर्क्षपुत्रः कौन्तेय! कुरूणामृषभो बली । सूर्य्यमाराधयामास नृपः संवरणस्तदा । अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः । नियमैरुपवासैश्च तपोभिर्विविधैरपि । शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् । ततः कृतज्ञं धर्मज्ञं रूपेण सदृशं भुवि । तपत्याः सदृशं मेने सूर्य्यः संवरणं पतिम् । दातुमेच्छत्ततः कन्यां तस्मै संवरणाय ताम् । नृपोत्तमाय कौरव्य! विश्रुताभिजनाय च” । भा० आ० १७१ अ० ।
📄 मूल मुद्रित पृष्ठ (3231-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।